मध्यप्रदेशे 6,200 कोटिरुप्यकाणि निवेश्य सेमीकंडक्टर इकाई इत्येषा स्थापयिष्यते - पारस डिफेंस एंड स्पेस टेक्नोलॉजीजसंस्था
- मध्यप्रदेशस्य के मुख्यमंत्री डॉ. यादवः मिलितस्संस्थायाः पदाधिकारिभिः सह, निवेशगता प्रकटिता इच्छा, अवदत्- 2500 प्रत्यक्षं जीविकां स्रक्ष्यति भोपालम्, 21 जुलाईमासः (हि.स.)। नवीमुम्बईस्थिता मेसर्स पारस डिफेन्स एण्ड स्पेस टेक्नोलॉजीज प्राइवेट लिमि
पारस डिफेंस एंड स्पेस टेक्नोलॉजीस कम्पनी के पदाधिकारी मप्र के मुख्यमंत्री को निवेश की जानकारी देते हुए


- मध्यप्रदेशस्य के मुख्यमंत्री डॉ. यादवः मिलितस्संस्थायाः पदाधिकारिभिः सह, निवेशगता प्रकटिता इच्छा, अवदत्- 2500 प्रत्यक्षं जीविकां स्रक्ष्यति

भोपालम्, 21 जुलाईमासः (हि.स.)।

नवीमुम्बईस्थिता मेसर्स पारस डिफेन्स एण्ड स्पेस टेक्नोलॉजीज प्राइवेट लिमिटेड नाम्नी संस्था मध्यप्रदेशे सेमीकण्डक्टरपरियोजनां स्थापयितुम् इच्छति। प्रारम्भिकचरणे संस्था प्रायः ६२०० कोटिरूप्यकाणां निवेशं करिष्यति। अस्याः परियोजनायाः माध्यमेन २५०० अधिकानि प्रत्यक्षजीविकानामवसराः सृज्यन्ते।

एषा सूचना संस्थायाः पदाधिकारिभिः मङ्गलवासरे मध्यप्रदेशविधानसभास्थिते मुख्यमन्त्रीकक्षे मुख्यमन्त्रिणा डा. मोहनयादवेन सह सम्पन्नायां भेंटायाम् प्रदत्ता। तैः उक्तं यत् संस्थया भूमेः चयनं कृतम् अस्ति। शीघ्रमेव भूम्यावण्टनार्थं प्रस्तावः अपि प्रदास्यते।

वस्तुतः मेसर्स पारस डिफेन्स एण्ड स्पेस टेक्नोलॉजीज प्राइवेट लिमिटेड संस्थायाः प्रबन्धननिर्देशकः मञ्जुलशरदशाहः स्वसहयोगिभिः सह मङ्गलवासरे भोपालप्रवासस्य अवसरे मध्यप्रदेशविधानसभायां मुख्यमन्त्रिणा डा. मोहनयादवेन सह सौजन्यभेटां कृतवान्। मुख्यमन्त्री डा. यादवः निवेशकान् स्वागतं कृत्वा उक्तवान् यत् ते मुक्तमनसा मध्यप्रदेशे निवेशं कुर्वन्तु, शासनं तेषां सर्वप्रकारेण साहाय्यं करिष्यति।

मुख्यमन्त्रिणा सह सम्पन्नायां संगोष्ठ्यां विज्ञानप्रौद्योगिकीविभागस्य मध्यप्रदेशशासनस्य संस्थायाश्च मध्ये एकं समझौताज्ञापनम् हस्ताक्षरितं परस्परम् आदानप्रदानं च कृतम्। संस्थायाः देशीयमुख्यालयं नवीमुम्बईनगरे वर्तते। संस्था आप्टिकलसिस्टम् इति उपकरणानां उत्पादनं करोति।

मुख्यमन्त्रिणे डा. यादवाय निवेदितं यत् पारससंस्थायै प्रदेशस्य सेमीकण्डक्टरनीतिः अत्यन्तं रोचते तथा च स्वकीयां उत्पादनैककां स्थापयितुं संस्थया भूमिः अपि चयनिता अस्ति। अस्मिन् अवसरे मध्यप्रदेशऔद्योगिकनीतिनिवेशसंवर्धनविभागस्य प्रमुखसचिवः राघवेन्द्रकुमारसिंहः, विज्ञानप्रौद्योगिकीविभागस्य प्रमुखसचिवः एम् सेलवेन्द्रम्, मध्यप्रदेशऔद्योगिकविकासनिगमलिमिटेडस्य प्रबन्धननिर्देशकः चन्द्रमौलिशुक्लः अन्ये वरिष्ठाधिकारिणः च उपस्थिताः आसन्।

संस्था किं करोति

मेसर्स पारस डिफेन्स एण्ड स्पेस टेक्नोलॉजीज लिमिटेड भारतस्य अग्रगण्यासु रक्षाअन्तरिक्षप्रौद्योगिकीसंस्थासु अन्यतमा अस्ति। एषा संस्था रक्षाअन्तरिक्षएयरोस्पेसक्षेत्रेभ्यः स्वदेशीयप्रौद्योगिकीं उच्चस्तरीययान्त्रिकसमाधानानि च विकसितानि निर्मितानि च करोति। पारस डिफेन्स एण्ड स्पेस टेक्नोलॉजीज लिमिटेड भारतीयशेयरविपण्यां सूचीकृता सार्वजनिकसंस्था अस्ति तथा च संस्थायाः समभागाः राष्ट्रियस्टॉकएक्सचेञ्जे बॉम्बेस्टॉकएक्सचेञ्जे च सूचीकृताः सन्ति।

संस्थायाः रक्षाक्षेत्रे उच्चपरिशुद्धताविनिर्माणक्षेत्रे च चत्वारिंशद्वर्षाधिकः अनुभवः अस्ति तथा च संस्थायाः वर्तमानबाजारमूल्यम् प्रायः १०००० कोटिरूप्यकाधिकम् अस्ति। संस्था आप्टिक्स आप्ट्रॉनिक्ससिस्टम्, डिफेन्सइलेक्ट्रॉनिक्स, ईओ आईआर सिस्टम्, एन्टीड्रोनसिस्टम्, आरएफ माइक्रोवेवसिस्टम्, ईएमपी प्रोटेक्शनसिस्टम्, क्वान्टमप्रौद्योगिकी, अन्तरिक्षप्रौद्योगिकी, गुरुयान्त्रिकविनिर्माणम् इत्यादिषु रणनीतिकक्षेत्रेषु कार्यं करोति। संस्थायाः विनिर्माणयान्त्रिकप्रतिष्ठानानि महाराष्ट्रकर्नाटकतेलङ्गानाराज्येषु सञ्चालितानि सन्ति। एषा संस्था रक्षामन्त्रालयाय, डीआरडीओ, इसरो, रक्षासार्वजनिकउपक्रमेभ्यः तथा अन्येभ्यः प्रमुखराष्ट्रियअन्ताराष्ट्रियसंस्थाभ्यः प्रौद्योगिकीसमाधानानि प्रददाति। अधुना संस्था सेमीकण्डक्टरविनिर्माणक्षेत्रे स्वसम्भावनानां विस्तारं करोति।

पदाधिकारिभिः उक्तं यत् स्वव्यवसायविस्तारस्य अस्य क्रमस्य अन्तर्गतं संस्था विश्वस्तरीयाम् ओएसएटी आउटसोर्स सेमीकण्डक्टर असेम्बली एण्ड टेस्ट इकाईं स्थापयितुं योजना निर्मिता अस्ति। अस्याः परियोजनायाः स्थापनार्थं संस्थायै प्रायः ५० एकडपरिमिता भूमिः अपेक्षिता अस्ति। अस्मिन् विषये एमपीआईडीसी उज्जयिनीक्षेत्रीयकार्यालयेन संस्थायाः प्रतिनिधिभ्यः डीएमआईसी विक्रमउद्योगपुरी लिमिटेडस्य फेज २ मध्ये प्रायः ४० एकडपरिमिता उपयुक्ता भूमिः दर्शिता अस्ति। संस्थायाः वरिष्ठाधिकारिभिः भूमिस्थलस्य प्रत्यक्षनिरीक्षणं कृतम् अस्ति तथा च एषा भूमिः परियोजनास्थापनार्थम् उपयुक्ता इति मन्यमानैः प्रारम्भिकरूपेण चयनिता अस्ति। प्रस्तावितायाः परियोजनायाः स्थापनानन्तरं मध्यप्रदेशे सेमीकण्डक्टर उच्चप्रौद्योगिकीविनिर्माणक्षेत्रयोः नूतना गतिः भविष्यति तथा च राज्ये निवेशस्य जीविकासृजनस्य औद्योगिकविकासस्य च महत्त्वपूर्णं प्रोत्साहनं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani