राष्ट्रमण्डल-क्रीडा-२०२६ - २३ जुलाईमासतः आरम्भः, भारतीय-समयानुसारेण सम्पूर्णः प्रतियोगिता-कार्यक्रमः
नवदेहली, २१ जुलाईमासः (हि.स.)। स्कॉटलैण्डस्य ग्लासगो-नगरे २३ जुलाईमासतः २ अगस्तपर्यन्तम् आयोज्यमाने राष्ट्रमण्डल-क्रीडा-२०२६ स्पर्धासु ७४ देशेभ्यः तथा प्रदेशेभ्यः आगताः ३००० अधिकाः क्रीडकाः सहभागिनः भविष्यन्ति। एकादश-दिनात्मकासु एतासु क्रीडासु ११ क
ग्लासगो राष्ट्रमंडल खेल लोगो


नवदेहली, २१ जुलाईमासः (हि.स.)। स्कॉटलैण्डस्य ग्लासगो-नगरे २३ जुलाईमासतः २ अगस्तपर्यन्तम् आयोज्यमाने राष्ट्रमण्डल-क्रीडा-२०२६ स्पर्धासु ७४ देशेभ्यः तथा प्रदेशेभ्यः आगताः ३००० अधिकाः क्रीडकाः सहभागिनः भविष्यन्ति। एकादश-दिनात्मकासु एतासु क्रीडासु ११ क्रीडासु २१५ पदक-स्पर्धाः भविष्यन्ति। अस्मिन् महोत्सवे ओलम्पिक-विश्व-चैम्पियन-क्रीडकैः सह अनेके उदीयमानाः क्रीडकाः अपि स्वप्रतिभां प्रदर्शयिष्यन्ति।

क्रीडानाम् आरम्भः २३ जुलाईमासे बाउल्स तथा पैरा-बाउल्स-स्पर्धाभ्यां भविष्यति, समापनं च २ अगस्तमासे ट्रैक-सायक्लिङ्ग, जूडो तथा नेटबॉल-पदक-स्पर्धाभिः भविष्यति। एथलेटिक्स्, तरणम्, मुक्केबाजी, भारोत्तोलनम्, ३×३ बास्केटबॉल तथा पैरा-स्पर्धाः आकर्षणस्य केन्द्राणि भविष्यन्ति।

भारतीय-समयानुसारेण प्रतियोगिता-कार्यक्रमः

३×३ बास्केटबॉल तथा ३×३ व्हीलचेयर-बास्केटबॉल (एसईसी-केन्द्र-सभा-४)

२४ जुलाई : २:३०–६:०० अपराह्णे, ७:००–१०:३० सायं, ११:३०–२:०० रात्रौ (२५ जुलाईमास:)

२५ जुलाई : २:३०–६:०० अपराह्णे, ७:००–१०:३० सायं, ११:३०–२:०० रात्रौ (२६ जुलाईमास:)

२६ जुलाई : ४:००–८:१५ सायं, ९:३०–१:४५ रात्रौ (२७ जुलाईमास:)

२७ जुलाई : ४:००–८:१५ सायं, ९:३०–१:४५ रात्रौ (२८ जुलाईमास:)

२८ जुलाई : १०:००–२:०० रात्रौ (२९ जुलाईमास:)

२९ जुलाई : ४:००–८:०० सायं, ९:००–२:०० रात्रौ (३० जुलाई)

आर्टिस्टिक-जिम्नास्टिक्स् (ग्लासगो-इन्टरनेशनल-एरीना)

२४ जुलाई : २:३० अपराह्णात्–८:३० रात्रेः, १०:००–१:४५ रात्रौ (२५ जुलाईमास:)

२५ जुलाई : २:३०–६:३० अपराह्णे, ८:१५–१:१५ रात्रौ (२६ जुलाई)

२६ जुलाई : ४:३०–७:३० सायं, ८:३०–११:३० रात्रौ

२७ जुलाई : ५:३०–१०:०० रात्रौ

२८ जुलाई : ५:३०–१०:०० रात्रौ

एथलेटिक्स् तथा पैरा-एथलेटिक्सक्रीडा (ईडीएफ-स्कॉट्सटाउन-स्टेडियम्)

२७–१ अगस्त : प्रतिदिनं अपराह्ण-सत्रं तथा रात्रि-पदक-सत्रम् (मूल-कार्यक्रमानुसारम्)

बाउल्स तथा पैरा-बाउल्स (एसईसी-केन्द्र-सभा-३)

२३ जुलाई : २:०० अपराह्णात्–८:५५ रात्रेः

२४ जुलाई–२ अगस्त : प्रतिदिनं अपराह्णे तथा रात्रौ निर्धारित-सत्रेषु स्पर्धाः

मुक्केबाजी (एसईसी-केन्द्र-सभा-५)

२४ जुलाई–१ अगस्त : प्रतिदिनं अपराह्ण-, सायं- तथा रात्रि-सत्रेषु स्पर्धाः

नेटबॉल (द-हाइड्रो)

२५ जुलाई–२ अगस्त : निर्धारित-सत्रेषु प्रतिदिनं स्पर्धाः

पैरा-पावरलिफ्टिङ्ग (एसईसी-आर्माडिलो)

२४ जुलाई : ५:३०–९:०० सायं, १०:३०–२:०० रात्रौ (२५ जुलाई)

तारणम् तथा पैरा-तारणम् (टोलक्रॉस्-इन्टरनेशनल-स्विमिङ्ग-केन्द्रम्)

२४–२९ जुलाई : प्रतिदिनं अपराह्ण-सत्रं तथा रात्रि-पदक-सत्रम्

ट्रैक-सायक्लिङ्ग तथा पैरा-ट्रैक-सायक्लिङ्ग (सर-क्रिस-होय-वेलोड्रोम्)

३० जुलाई–२ अगस्त : प्रतिदिनं अपराह्णे, सायं तथा रात्रौ निर्धारित-सत्रेषु स्पर्धाः

भारोत्तोलनम् (एसईसी-आर्माडिलो)

२६–३० जुलाई : प्रतिदिनं अपराह्ण-, सायं- तथा रात्रि-सत्रेषु पदक-स्पर्धाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan