कॉमनवेल्थ-क्रीडासु सशक्त-प्रारम्भाय सज्जः विशाल-टीके, अवदत्—देशस्य कृते स्वस्य सर्वश्रेष्ठं प्रदास्यामि
मुम्बईनगरम्, २१ जुलाईमासः (हि.स.)। भारतीयः चतुर्शत-मीटर-धावकः विशाल-थेन्नारासु-कयालविझी ग्लासगो-नगरे भविष्यमाणासु कॉमनवेल्थ-क्रीडासु–२०२६ स्वस्य प्रथम-अभियानाय पूर्णतया सज्जः अस्ति। द्वाविंशतिवर्षीयः विशालः अस्मिन् ऋतौ उत्कृष्ट-प्रदर्शनेन भारतस्य अ
विशाल टीके


मुम्बईनगरम्, २१ जुलाईमासः (हि.स.)। भारतीयः चतुर्शत-मीटर-धावकः विशाल-थेन्नारासु-कयालविझी ग्लासगो-नगरे भविष्यमाणासु कॉमनवेल्थ-क्रीडासु–२०२६ स्वस्य प्रथम-अभियानाय पूर्णतया सज्जः अस्ति। द्वाविंशतिवर्षीयः विशालः अस्मिन् ऋतौ उत्कृष्ट-प्रदर्शनेन भारतस्य अग्रणी-स्प्रिण्ट-धावकेषु स्वकीयं विशिष्टं परिचयं स्थापितवान्। असौ अस्मिन् एव वर्षे ४००-मीटर-धावने ४४.९८ निमेष-समयं प्राप्त्वा ४५ निमेष-सीमां भेत्तुं समर्थः प्रथमः भारतीयः पुरुष-धावकः अभवत्। एतत् प्रदर्शनं वर्तमानं राष्ट्रिय-अभिलेखः अपि अस्ति।

चतुर्वारं राष्ट्रिय-विजेता विशालः विगत-वर्षेषु एशियाई-स्तरेऽपि स्वकीयं विशिष्टं परिचयं स्थापितवान्। तेन एशियाई-एथलेटिक्स-चैम्पियनशिप्-प्रतियोगितायां भारताय मिश्रित-४×४००-मीटर-रिले-स्पर्धायां स्वर्ण-पदकं तथा पुरुष-४×४००-मीटर-रिले-स्पर्धायां रजत-पदकं प्राप्तुं महत्त्वपूर्णा भूमिका निर्वाहिता। विश्व-क्रमाङ्कने शीर्ष-६० धावकेषु समाविष्टः विशालः अधुना कॉमनवेल्थ-क्रीडासु भारतस्य प्रमुखासु आशासु गण्यते।

कॉमनवेल्थ-क्रीडासु स्वस्य प्रथम-प्रवेशात् पूर्वं विशालः अवदत्, “अहं विजय-मानसिकतया कॉमनवेल्थ-क्रीडासु प्रवेक्ष्यामि। बहूनां मासानां कठिन-परिश्रमः, निष्ठा, अनुशासनम्, निरन्तरता तथा आत्मविश्वासः माम् अत्र आनयत्। मम प्रक्रियायां तथा स्वस्य प्रशिक्षके जेसन-डॉसन-महोदये पूर्णः विश्वासः अस्ति। मम लक्ष्यं क्रीडापथे स्वस्य सर्वोत्तमं प्रदर्शनं कर्तुं प्रत्येकं क्षणं महत्त्वपूर्णं कर्तुं च अस्ति। अहं स्वकीय-क्षमतानां सीमां न निर्धारयामि। प्रत्येकं स्पर्धासु स्वात्मानं अधिकं श्रेष्ठं कर्तुं प्रयतामि। भारतस्य प्रतिनिधित्वं मम प्रेरणास्रोतः अस्ति, देशं गौरवान्वितं कर्तुं च अहं स्वस्य सर्वस्वं समर्पयिष्यामि।”

विशालः स्वस्य सफलतायाः श्रेयः इन्स्पायर-इन्स्टिट्यूट्-ऑफ-स्पोर्ट इत्यस्मै अपि अददात्। सः अवदत्, “सफलता कदापि एकाकिना न प्राप्यते। मया सह उत्कृष्टा कार्यदलम् अस्ति इति मम सौभाग्यम्। आईआईएस संस्थया विश्वस्तरीयं प्रशिक्षणम्, क्रीडा-विज्ञानम्, पोषणम्, पुनर्स्वास्थ्य-व्यवस्था, मानसिक-प्रशिक्षणम् इत्यादयः सर्वाः सुविधाः प्रदत्ताः। संस्थायाः विश्वासेन मम आत्मविश्वासः निरन्तरं वर्धितः। सुदृढ-सहयोग-व्यवस्थायाः कारणेन अहं केवलं स्वप्रदर्शने एव ध्यानं केन्द्रयितुं शक्नोमि।”

भारतीय-पुरुषाणां ४००-मीटर-धावनस्य निरन्तर-प्रगति-विषये विशालः अवदत्, “भारतीय-एथलेटिक्सस्य स्वरूपं परिवर्तयन्त्याः अस्य वंशस्य सदस्यः भवितुं मम कृते गौरवस्य विषयः अस्ति। वयं सिद्धयामः यत् भारतीय-धावकाः विश्वस्य श्रेष्ठ-क्रीडकैः सह स्पर्धितुं समर्थाः सन्ति। मम प्रत्येकं प्रदर्शनं केवलं मम कृते न, अपितु तेषां युवा-क्रीडकानां कृते अपि नूतनं मानदण्डं स्थापयितुं प्रयत्नः अस्ति, ये कदाचित् भारतस्य जर्सीं धारयितुं स्वप्नं पश्यन्ति। मम यात्रा अनेकेषां यूनां स्वप्नान् द्रष्टुं प्रेरणां दास्यति इति मम आशा अस्ति।”

स्वस्य सिद्धतां विषये सः अवदत्, “विगत-कतिपय-मासेषु मम प्रशिक्षणस्य प्रमुखः आधारः निरन्तरता आसीत्—शारीरिक-, मानसिक- तथा तकनीकी-स्तरेषु। प्रत्येकं अभ्यास-सत्रं मां अधिकं सुदृढं, शीघ्रं तथा महान् मञ्चाय सज्जं च अकरोत्। अहं केवलं धावकरूपेण न, अपितु प्रतियोगिरूपेण अपि स्वात्मानं विकसितवान्। अधुना अहं प्रभावेऽपि शान्तं स्थातुं, स्वसिद्धतायां विश्वासं कर्तुं, समुचित-समये आत्मविश्वासेन प्रदर्शनं कर्तुं च अशिक्षम्।”

कॉमनवेल्थ-क्रीडासु भारतस्य प्रतिनिधित्वं स्वकीय-जीवनस्य महान्तमं सम्मानम् इति वर्णयन् विशालः अवदत्, “भारतीय-जर्सीं धारयितुं केवलं देशस्य प्रतिनिधित्वं न, अपितु कोटिशः जनानां आशाः स्वप्नानि च वहन् क्रीडापथम् अवतरितुम् अस्ति। यदा यदा अहं धावामि, तदा तदा गौरवं उत्तरदायित्वं च अनुभवानि। देशवासिनां समर्थनाय अहं तेषां हृदयतः धन्यवादं ददामि। तेषाम् उत्साहवर्धनं मम शक्तिं वर्धयति, अहं च प्रतिजाने यत् क्रीडापथे स्वस्य शत-प्रतिशतं प्रयत्नं करिष्यामि। भारतीय-एथलेटिक्सक्रीडाया: एवं समर्थनं कुर्वन्तु, यतः वयं सर्वे मिलित्वा किञ्चित् विशेषं निर्मामः।”

राष्ट्रिय-अभिलेखेन, चतुर्भिः राष्ट्रिय-उपाधिभिः तथा एशियाई-स्तरे पदकैः प्रसिद्धिं प्राप्तः विशाल-टीके अधुना कॉमनवेल्थ-क्रीडासु उत्कृष्ट-प्रदर्शनं कृत्वा वैश्विक-स्तरे स्वकीयां छविं स्थापयितुं तथा भारतीय-स्प्रिण्ट-क्षेत्रस्य नूतन-उत्थानं सुदृढं कर्तुं ग्लासगो-नगरं प्रति प्रस्थितः भविष्यति।

Hindusthan Samachar / Divya Ranjan