Enter your Email Address to subscribe to our newsletters

नवदेहली, २१ जुलाईमासः (हि.स.)। युवा-कार्यक्रम-क्रीडा-मन्त्रालयेन तेनजिङ्ग-नोर्गे-राष्ट्रीय-साहसिक-पुरस्कारस्य २०२५ वर्षस्य कृते अन्तर्जाल-नामाङ्कनानि आमन्त्रितानि। भारते साहसिक-क्रियाकलाप-क्षेत्रे उत्कृष्ट-उपलब्धीनां कृते प्रदीयमानस्य अस्य सर्वोच्च-राष्ट्रीय-सम्मानस्य आवेदन-प्रक्रिया २१ जुलाईमासतः २० अगस्तपर्यन्तम् उद्घाटिता भविष्यति। इच्छुकाः अभ्यर्थिनः गृह-मन्त्रालयस्य राष्ट्रीय-पुरस्कार-पटलस्य माध्यमेन अन्तर्जाल-आवेदनं कर्तुं शक्नुवन्ति।
तेनजिङ्ग-नोर्गे-राष्ट्रीय-साहसिक-पुरस्कारस्य उद्देश्यं साहसिक-क्रीडासु असाधारण-उपलब्धीनां सम्माननम् तथा युवसु साहसस्य, धैर्यस्य, नेतृत्व-क्षमतायाः, दल-भावनायाश्च संवर्धनम् अस्ति। एषः पुरस्कारः चतसृषु श्रेणीषु—स्थल-साहसिकम्, जल-साहसिकम्, वायु-साहसिकम् तथा आजीवन-उपलब्धिः— इत्येतेषु प्रदीयते। अस्य उद्देश्यं देशस्य यूनः साहसिक-क्रियाकलापेषु अधिक-भागग्रहणाय प्रेरयितुमपि अस्ति।
पुरस्कार-विजेतृभ्यः कांस्य-प्रतिमा, प्रशस्ति-पत्रम्, ब्लेजर तथा १५ लक्ष-रूप्यकाणां पुरस्कार-राशिः प्रदास्यते। अस्य पुरस्कारस्य मान्यता अर्जुन-पुरस्कारस्य समकक्षः अस्ति, भारत-सर्वकारेण च एषः राष्ट्रीय-क्रीडा-पुरस्कारैः सह प्रदीयते।
युवा-कार्यक्रम-क्रीडा-मन्त्रालयस्य अनुसारेण साहसिक-क्रियाकलाप-क्षेत्रे उत्कृष्ट-उपलब्धयः प्राप्तवन्तः भारतीय-नागरिकाः आवेदनं कर्तुं पात्राणि भविष्यन्ति। आवेदनानि केवलम् अन्तर्जाल-माध्यमेन एव स्वीकृतानि भविष्यन्ति।
आवेदकेभ्यः सम्बन्धित-राज्य-सर्वकारस्य युवा/क्रीडा-विभागात् अथवा मान्यताप्राप्त-साहसिक-संस्थाभ्यः अनुशंसां प्राप्तुं परामर्शः प्रदत्तः। सेना, नौसेना तथा वायुसेनायाः कार्यरत-कर्मचारिणां कृते सम्बन्धित-विभागस्य अनुशंसा अनिवार्या भविष्यति। मन्त्रालयं स्वयमपि विविध-संस्थाभ्यः नामाङ्कनानि आमन्त्रयितुं वा पात्र-व्यक्तीन् नामनिर्देशयितुं शक्नोति।
आवेदनेन सह अभ्यर्थिभिः एकः इण्डेक्स्ड्-पीडीएफ् सञ्चिका अपलोड् इति कर्तव्या, यस्याम् वर्षानुसारम् उपलब्धीनां क्रमबद्ध-विवरणं आवश्यक-प्रमाणपत्राणि च समाविष्टानि भवेयुः। स्थल-, जल- तथा वायु-साहसिक-श्रेणीषु चयनकाले विगत-त्रयाणां पञ्चाङ्ग-वर्षाणाम् उपलब्धयः आधाररूपेण ग्राह्याः भविष्यन्ति।
मन्त्रालयेन उक्तं यत् इच्छुकाः अभ्यर्थिनः विस्तृत-निर्देशाः, पात्रता, प्रायः पृष्टानि प्रश्नोत्तराणि तथा आवेदन-प्रारूपं राष्ट्रीय-पुरस्कार-पोर्टले तथा युवा-कार्यक्रम-क्रीडा-मन्त्रालयस्य जालपुटस्य 'लेटेस्ट् न्यूज़' इत्यस्मिन् विभागे अवलोकयितुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan