Enter your Email Address to subscribe to our newsletters


सारणनगरम्, २१ जुलाईमासः (हि.स.)। स्वातन्त्र्य-दिवस-२०२६-समारोहोपलक्ष्ये मुख्य-समारोहस्य आयोजनार्थं सज्जताः प्रारब्धाः। एतदर्थं भिखारी-ठाकुर-प्रेक्षागृहे परामर्शदात्री-समितेः पदाधिकारीभिः सम्मानित-सदस्यैश्च सह सभा आयोजिता, यस्यां समारोहस्य सुव्यवस्थित-आयोजनार्थम् आवश्यकाः निर्देशाः प्रदत्ताः।
सभायां निर्णयः कृतः यत् स्वातन्त्र्य-दिवसस्य मुख्य-ध्वजारोहण-कार्यक्रमः पूर्ववत् स्थानीय-राजेन्द्र-क्रीडाङ्गणे आयोजिष्यते। अस्मिन् वर्षे समारोहे अतिथीनां डिजिटल-माध्यमेन संयोजनार्थम् ई-आमन्त्रण-पत्राणि तेषां व्हाट्सएप-माध्यमेन प्रेषयिष्यन्ते। तदतिरिक्तं राजेन्द्र-क्रीडाङ्गणात् मुख्य-कार्यक्रमस्य प्रत्यक्ष-प्रसारणं वेबकास्टिंग तथा सामाजिक-माध्यमैः अपि भविष्यति। अस्य दायित्वं जनपद-सूचना-विज्ञान-अधिकारिणे समर्पितम्।
जनपद-प्रशासनेन निर्देशः प्रदत्तः यत् सर्वेषु सर्वकारीय-कार्यालयेषु नियमानुसारं ध्वजारोहणं सम्पन्नं भविष्यति। ततः परं महादलित-वासक्षेत्रेषु ग्रामेषु च आयोजितेषु ध्वजारोहण-कार्यक्रमेषु अधिकारिणः सहभागं करिष्यन्ति। राजेन्द्र-क्रीडाङ्गणे प्रस्तुतव्येषां विभागानां उपलब्धि-प्रतिवेदनानां भाषणस्य च सज्जीकरणस्य दायित्वं जनपद-जनसम्पर्क-अधिकारिणे विशेष-कार्य-अधिकारिणे च समर्पितम्।
नगर-आयुक्ताय सम्पूर्ण-नगरीय-क्षेत्रस्य, प्रमुख-चतुष्पथानां महापुरुषाणां प्रतिमानां च स्वच्छता-सज्जीकरणयोः सुनिश्चिती-करणस्य निर्देशः प्रदत्तः। सभायां वरिष्ठ-आरक्षक-अधीक्षकः विनीत-कुमारः, जनपद-स्तरीय-अधिकारिणः तथा परामर्शदात्री-समितेः सदस्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan