२५० कुक्कुरै: सह 'ओह माय डॉग' इति चलचित्रे पङ्कज-त्रिपाठी दर्क्ष्यते, पूर्वावलोकनम् प्रकाशितम्
मुम्बईनगरम्, २१ जुलाईमासः (हि.स.)। निर्देशकस्य अमित-रायस्य अग्रिम-चलचित्रस्य ''ओह माय डॉग'' इत्यस्य आधिकारिकं पूर्वावलोकनम् प्रकाशितम्। ''ओह माय गॉड'' इति सफल-चलचित्र-श्रृङ्खलायाः अनन्तरम् अमित-रायः अस्मिन् वारे मानव-पश्वोः सम्बन्धम् आधारीकृत
ओह माय डॉग - फोटो सोर्स एक्स


मुम्बईनगरम्, २१ जुलाईमासः (हि.स.)। निर्देशकस्य अमित-रायस्य अग्रिम-चलचित्रस्य 'ओह माय डॉग' इत्यस्य आधिकारिकं पूर्वावलोकनम् प्रकाशितम्। 'ओह माय गॉड' इति सफल-चलचित्र-श्रृङ्खलायाः अनन्तरम् अमित-रायः अस्मिन् वारे मानव-पश्वोः सम्बन्धम् आधारीकृत्य भावपूर्णां कथां प्रस्तुतवान्। अस्मिन् चलचित्रे पङ्कज-त्रिपाठी मुख्यभूमिकायां दृश्यते। तेन सह द्विशताधिक-पञ्चाशत् कुक्कुराणां सहभागिता अस्य चलचित्रस्य विशेषतां वर्धयति। कलाकाराणां समूहे माही-राय:, पवन-मल्होत्रा, गीता-अग्रवाल-शर्मा, सुलक्षणा-बरुआ, राजेश-कुमारः तथा विजय-मिश्रः अपि महत्त्वपूर्णासु भूमिकासु दृश्यन्ते।

पूर्वावलोकनं लघु-बालकस्य एकेन कुक्कुरेण सह निष्कपट-मैत्र्या आरभ्यते। कथा क्रमशः अग्रे गच्छन्ती अप्रत्याशितैः घटनाक्रमैः भावपूर्णं दिशं प्राप्नोति तथा परिवारस्य, संवेदनानां, सम्बन्धानां च गाम्भीर्यं प्रकाशयति। अस्मिन् चलचित्रे मनोरञ्जनेन सह मानव-पश्वोः मध्ये प्रेम, करुणा, मानवता च इति सन्देशः प्रमुखतया प्रदर्शितः अस्ति।

'ओह माय डॉग' इति चलचित्रस्य निर्माणं बाबूलाल-बाइस्कोप तथा थिङ्किङ्ग-हैट्स-एन्टरटेन्मेण्ट इति निर्माणी-द्वयस्य ध्वजतले कृतम्। भावपूर्ण-नाटकेन रहस्यतत्त्वेन च परिपूर्णम् एतत् चलचित्रं ३१ जुलाईमासे, २०२६ तमे दिने देशव्यापीषु चलचित्रगृहेषु प्रदर्शितं भविष्यति। पूर्वावलोकनं प्रेक्षकैः सकारात्मक-प्रतिक्रियां प्राप्तवदस्ति, चलचित्रस्य विषये च उत्सुकता निरन्तरं वर्धते।

Hindusthan Samachar / Divya Ranjan