Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २१ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः योगी-आदित्यनाथस्य अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिपरिषदः सभायां अनेके महत्त्वपूर्णाः प्रस्तावाः अनुमोदिताः। पञ्च-कालिदास-मार्गस्थिते मुख्यमन्त्रिणः आधिकारिक-निवासे आयोजितायां अस्यां सभायां उत्तरप्रदेश-विधानमण्डलस्य वर्षाकालीनम् अधिवेशनम् अगस्तमासस्य ३ दिनाङ्कात् आह्वास्यते इति प्रस्तावः स्वीकृतः, अन्ये च प्रस्तावाः अनुमोदिताः। अस्यां सभायां मुख्यमन्त्रिणा सह उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः, ब्रजेश-पाठकः, अन्ये मन्त्रिणश्च उपस्थिताः आसन्।
मन्त्रिपरिषदि उच्चशिक्षा-विभागस्य त्रयः प्रस्तावाः स्वीकृताः। उत्तरप्रदेश-सर्वकारेण छात्राभ्यः निःशुल्क-स्कूटी-प्रदानस्य निर्णयः कृतः। सर्वेषु महाविद्यालयेषु शैक्षणिक-वर्षे २०२५–२६ उत्तीर्णासु छात्रासु श्रेष्ठ-पञ्च-प्रतिशते छात्राभ्यः पेट्रोल-चालित-स्कूटी प्रदास्यते। दिव्याङ्ग-छात्राभ्यः, शहीद-निराश्रित-परिवाराणां छात्राभ्यश्च प्राधान्यं प्रदास्यते। उच्चशिक्षामन्त्री योगेन्द्र-उपाध्यायः अवदत् यत् यासां छात्राणाम् अभिभावकानां वार्षिकम् आयः १२ लक्ष-रूप्यकेभ्य: न्यूनः अस्ति, ताः एव अस्याः योजनायाः लाभं प्राप्स्यन्ति। अस्याः योजनायाः कार्यान्वयनार्थं सर्वकारः प्रायः ४०० कोटि-रूप्यकाणि व्ययिष्यति।
Hindusthan Samachar / Divya Ranjan