सुहेलदेवस्य परम्परा न, अपितु गाजी मियाँ-मेलापकः एव विपक्षाय रोचते स्म; अतः तेषां दुर्दशा अभवत् - योगी आदित्यनाथः
• मुख्यमन्त्रिणा योगी-आदित्यनाथेन श्रावस्ती-भिङ्गा-विधानसभाक्षेत्रयोः ३९६ कोटिरूप्यकाधिकमूल्यानां ८३ विकासपरियोजनानां लोकार्पणं शिलान्यासश्च कृतः।• मशकानां दस्यूनां च आतङ्को नास्ति; श्रावस्ती अधुना प्रेरणादायिजनपदत्वेन प्रसिद्धिम् अधिगच्छति : मुख्य
बटन दबाकर परियोजनाओं का लोकार्पण/शिलान्यास करते सीएम


जनसभा को सम्बोधित करते मुख्यमंत्री और उपस्थित जनसमूह


• मुख्यमन्त्रिणा योगी-आदित्यनाथेन श्रावस्ती-भिङ्गा-विधानसभाक्षेत्रयोः ३९६ कोटिरूप्यकाधिकमूल्यानां ८३ विकासपरियोजनानां लोकार्पणं शिलान्यासश्च कृतः।• मशकानां दस्यूनां च आतङ्को नास्ति; श्रावस्ती अधुना प्रेरणादायिजनपदत्वेन प्रसिद्धिम् अधिगच्छति : मुख्यमन्त्री।• यः कन्यायाः व्यापरिणश्च सुरक्षया सह क्रीडां करिष्यति, तस्य स्थानं कारागारे अथवा नरके भविष्यति।• ७,५०० कोटिरूप्यकव्ययेन निर्मीयमाणेन बहराइच-लखनऊ-चतुर्मार्गीय-मार्गेण श्रावस्ती सम्बद्धा भविष्यति।

श्रावस्तीनगरम्, २१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे श्रावस्ती-जनपदे विपक्षं लक्ष्यीकृत्य तीक्ष्णं प्रहारम् अकरोत्। सः अवदत् यत् महाराजसुहेलदेवस्य परम्परायाः सम्मानं भवितुमर्हति, किन्तु पूर्वसर्वकारैः विदेश्याक्रान्तुः सालार-मसूद-गाजी इत्यस्य नाम्ना मेलापकस्य आयोजनं कृतम्। अस्माकं सर्वकारस्य आगमना-नन्तरं मया स्पष्टतया उक्तं यत् विदेश्याक्रान्तुः नाम्ना कश्चन मेलापकः न भविष्यति। यदि कश्चित् तथा करिष्यति तर्हि तस्य विरुद्धं विधिसम्मता कार्यवाही भविष्यति। एतत् स्वतन्त्रभारतम् अस्ति, अत्र विदेश्याक्रान्तॄणां सम्मानं न भवितुमर्हति।

काङ्ग्रेसदलम् समाजवादीदलञ्च लक्ष्यीकृत्य सः अवदत् यत् तेषां कृते भगवान् बुद्धः, जैनतीर्थङ्कराः, माता जानकी, महाराजसुहेलदेवस्य च परम्परा न रोचते; अपितु ते गाजी मियाँ इत्यस्य मेलापकस्य आयोजनम् इच्छन्ति स्म। अतः एव तेषां दुर्दशा जाता।

मुख्यमन्त्री योगी आदित्यनाथः श्रावस्तेः इकौना-सीताद्वार इति स्थले आयोजिते कार्यक्रमे श्रावस्ती-भिङ्गा-विधानसभा-क्षेत्रयोः ३९६ कोटिरूप्यकाधिकमूल्यानां ८३ विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। तेन प्रदर्शिनी निरीक्षिता तथा विविधयोजनानां लाभग्राहिभ्यः धनादेशाः, गृहकुञ्जिकाः, अध्ययनसामग्री, आयुष्मान-पत्राणि च वितरितानि।

सर्वत्र दस्यूनां धूर्तानां च आतङ्कः आसीत्

जनसभायां सम्बोधयन् मुख्यमन्त्री अवदत् यत् विकासार्थं समयदानम्, नियमित-समीक्षा, जनप्रतिनिधीनां सक्रिय-सहयोगश्च अत्यावश्यकः। श्रावस्त्यां दृश्यन्ते ये विकासकार्याणि, तेषां पृष्ठतः सर्वकारस्य जनप्रतिनिधीनां च निरन्तर-पर्यवेक्षणम् अस्ति।

समाजवादीदलस्य राष्ट्रियाध्यक्षम् अखिलेशयादवम् उद्दिश्य सः अवदत् यत् नववर्षपूर्वं “बबुआ” मुख्यमन्त्री अभवत्। सः मध्याह्ने निद्रातः उत्थाय, अपराह्णे सज्जः भवति स्म, ततः “चच्चू” तस्मै पाठं पठयति स्म, सायंकाले व्यायामशालां गच्छति स्म, ततः स्वीयसभासु व्यस्तः भवति स्म। एवं सति प्रदेशस्य चिन्तनाय समयः कुत्र आसीत्? तस्मिन् काले सर्वेषु जनपदेषु भूमिदस्यवः, खननदस्यवः, वनदस्यवः, पशुदस्यवश्च प्रभुत्वेन आसन्। निर्धनेभ्यः खाद्यान्नम्, निवृत्तिवेतनम्, आरोग्यसेवा, आवासः, शौचालयादयः मूलभूतसुविधाः अपि न लभन्ते स्म। यूनां नियुक्तिषु भ्रष्टाचारः आसीत्, कृषकाः शिल्पिनश्च उपेक्षिताः आसन्। एतेन कारणेन श्रावस्ती देशस्य अत्यन्तं पश्चाद्गतानां शतजनपदानाम् अन्तर्गतः अभवत्।

नववर्षेषु श्रावस्त्याः रूपं परिवर्तितम्

मुख्यमन्त्री अवदत् यत् गतनववर्षेषु श्रावस्त्याः स्वरूपे महत्परिवर्तनम् अभवत्। प्रत्येकं निर्धनपरिवारं प्रधानमन्त्री-आवासयोजनया अथवा मुख्यमन्त्री-आवासयोजनया गृहं प्राप्तवान्। आयुष्मानभारत-योजना तथा मुख्यमन्त्री-जनआरोग्ययोजना इत्येताभ्यां स्वास्थ्य-सुरक्षा प्रदत्ता। प्रदेशस्य प्रायः १६ कोटिजनाः निःशुल्कं खाद्यान्नङ, ६५ लक्षनिर्धन-परिवाराः आवासम्, ३ कोटिपरिवाराः शौचालयं, २ कोटिपरिवाराश्च निःशुल्क-वातिसंयोजनम् प्राप्तवन्तः। ९ लक्षाधिक-युवभ्यः निष्पक्षतया भ्रष्टाचाररहितरीत्या शासकीयनियुक्तयः प्रदत्ताः।

‘एकः जनपदः एकः उत्पादः’ योजनया स्थानीयोत्पादानां प्रोत्साहनम्

सः अवदत् यत् पूर्वं श्रावस्ती-बहराइच-बलरामपुर-गोण्डा-इत्येतेषां जनपदानां युवभ्यः शासकीयनियुक्तिषु अवसरः न लभ्यते स्म। तदा “सैफई-सिण्डिकेट्” इत्यस्य प्रभुत्वम् आसीत्। अधुना परिस्थितिः परिवर्तिता अस्ति। उत्तरप्रदेश-आरक्षकविभागे, शिक्षकनियुक्तिषु, आङ्गनवाडी-नियुक्तिषु, लोकसेवायोगे अधीनस्थसेवाचयनायोगे च श्रावस्ती-युवभ्यः अपि निष्पक्षतया अवसरः लभ्यते।

निवेशः केवलं एनसीआर-प्रदेशे न सीमितः, अपितु श्रावस्तीसदृशेषु जनपदेष्वपि आगच्छति। ‘एकः जनपदः एकः उत्पादः’ इति योजनया स्थानीयोत्पादाः प्रोत्साहिताः। ‘एकः जनपदः एकः चिकित्सामहाविद्यालयः’ इति दिशि अपि कार्यं प्रवर्तते। अधुना श्रावस्त्यां न मशकानाम्, न दस्यूनां च आतङ्कः अस्ति; आकाङ्क्षी-जनपदः श्रावस्ती प्रेरणादायी-जनपदत्वेन नवीनं परिचयं प्राप्नोति।

७,५०० कोटिरूप्यकव्ययेन निर्मीयमाणेन चतुर्मार्गेण श्रावस्ती सम्बद्धा भविष्यति

मुख्यमन्त्री श्रावस्त्याः विकासयात्रायाः प्रशंसां कुर्वन् अवदत् यत् विकासस्य सोपानेषु श्रावस्त्या दीर्घा प्रगतिः कृता। देशस्य ५०० आकाङ्क्षीविकासखण्डेषु श्रावस्त्याः एकः विकासखण्डः प्रथमस्थानम् अलभत। प्रधानमन्त्रिणः नरेन्द्रमोदिनः चिन्तनं परम्परा-विकासयोः समन्वयस्य अस्ति, तस्यैव दिशि सर्वकारः कार्यं करोति।श्रावस्ती-बलरामपुर-गोण्डा-अयोध्या-चतुर्मार्गीयमार्गस्य निर्माणकार्यं प्रवर्तते। बहराइच-लखनऊप्रदेशयोः मध्ये प्रायः ७,५०० कोटिरूप्यकव्ययेन चतुर्मार्गीयमार्गः स्वीकृतः। अस्य मार्गस्य विस्तारः कृत्वा श्रावस्तीपर्यन्तं सम्पर्कः स्थापितुं सर्वकारस्य प्रयत्नः भविष्यति।

सरयू-कूल्या-राष्ट्रीयपरियोजनया कृषकेभ्यः सिंचनसुविधा प्रदत्ता

मुख्यमन्त्री अवदत् यत् कदाचित् श्रावस्त्याः परिचयः अपि नासीत्। अधुना बहराइच-गोण्डा-बलरामपुरेषु चिकित्सा-महाविद्यालयाः निर्मीयन्ते। माता पाटेश्वरी इत्यस्याः नाम्ना विश्वविद्यालयः, क्रीडामहाविद्यालयश्च स्थाप्यते। राजमार्गाः, रेलमार्गाः, विमानस्थानकानि च क्षेत्रस्य विकासं वर्धयिष्यन्ति। महिला-स्वयंसहायतासमूहैः महिलाः आत्मनिर्भराः क्रियन्ते, कृषकाणां आयवृद्धये च प्रयत्नाः क्रियन्ते।

सः सरयू-कूल्या-राष्ट्रीयपरियोजनाम् उल्लिख्य अवदत् यत् १९७० तमे वर्षे आरब्धा एषा योजना दीर्घकालं यावत् अपूर्णा आसीत्। किन्तु द्वियन्त्र-सर्वकारेण एषा सम्पूर्णा कृता तथा कृषकेभ्यः सिंचनसुविधा प्रदत्ता। समयबद्धतया विकासयोजनानां सफलकार्यान्वयनस्य क्षमता केवलं भाजपासर्वकारस्य एव अस्ति। कार्यकर्तारः एताः उपलब्धयः जनं जनं प्रति प्रापयन्तु इति सः आह्वानम् अकरोत्।

लाभग्राहिभ्यः धनादेशाः, गृहकुञ्जिकाः, सामग्री च वितरिता

• जनकदुलारी - मुख्यमन्त्री-कृषक-दुर्घटना-कल्याण-योजनया ५ लक्षरूप्यकधनादेशः।• रेखा - तेनैव योजनया ५ लक्षरूप्यकधनादेशः।• बिन्दुः तिवारी - मुख्यमन्त्री-युवा-उद्यमी-योजनया ४.४५ लक्षरूप्यकधनादेशः।• काशीरामः - मुख्यमन्त्री-युवा-उद्यमी-योजनया ४ लक्षरूप्यकधनादेशः।• काजल, लक्ष्मीः, प्रियङ्का - अध्ययनसामग्री वितरिता।• कपिलयादवः, अनीताराणा - आयुष्मानपत्रं प्रदत्तम्।• मालती, रामसागरः - मुख्यमन्त्री-ग्रामीण-आवासयोजनायाः गृहकुञ्जिकाः प्रदत्ताः।

अस्मिन् अवसरे विधानपरिषदः सदस्यौ साकेतमिश्रः, प्रज्ञात्रिपाठी, विधायकः रामफेरनपाण्डेयः, जनपद-पञ्चायत-प्रशासकः दद्दनसिंहः, भारतीयजनतापक्षस्य जनपदाध्यक्षः मिश्रीलालवर्मा इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan