उत्तरप्रदेशमंत्रिमंडलम् : प्रदेशस्य 50 सहस्राय छात्राभ्यः स्कूटीयानं दास्यति योगीसर्वकारः
लखनऊ, 21 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथस्य अध्यक्षतायां मङ्गलवासरे मन्त्रिपरिषदः उपवेशने अनेकानि महत्त्वपूर्णप्रस्तावानि अनुमोदितानि। मुख्यमन्त्रिणः आवासे पञ्चकालिदासमार्गे आयोजिते अस्मिन् उपवेशने उत्तरप्रदेशविधानमण्डलस्य वर्षाकालीनस
कैबिनेट बैठक करते मुख्यमंत्री योगी


लखनऊ, 21 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथस्य अध्यक्षतायां मङ्गलवासरे मन्त्रिपरिषदः उपवेशने अनेकानि महत्त्वपूर्णप्रस्तावानि अनुमोदितानि। मुख्यमन्त्रिणः आवासे पञ्चकालिदासमार्गे आयोजिते अस्मिन् उपवेशने उत्तरप्रदेशविधानमण्डलस्य वर्षाकालीनसत्रं अगस्तमासस्य तृतीये दिने आरभ्य आह्वातुं, प्रदेशस्य प्रायः ५० सहस्र छात्राभ्यः रानीलक्ष्मीबाईस्कूटीयोजनायाः लाभं प्रदातुं तथा अन्येषु प्रस्तावेषु अनुमोदनं प्रदत्तम्।

मन्त्रिपरिषदः उपवेशनानन्तरं उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः अवदत् यत् मुख्यमन्त्री योगीआदित्यनाथस्य अध्यक्षतायां सम्पन्नायां मन्त्रिपरिषदः उपवेशने उच्चशिक्षाविभागसम्बद्धानां त्रीणि महत्त्वपूर्णप्रस्तावानि स्वीकृतानि।

प्रथमः प्रस्तावः रानीलक्ष्मीबाईस्कूटीयोजना अस्ति। एषा योजना महिलासशक्तीकरणाय तथा उच्चशिक्षायां छात्राणां प्रोत्साहनार्थं प्रवर्तिता अस्ति। अस्याः अन्तर्गतं राज्यीयनिजीसम्बद्धविश्वविद्यालयमहाविद्यालयानां शैक्षणिकसत्रे २०२५ २०२६ उत्तीर्णासु छात्रासु शीर्षपञ्चप्रतिशतस्थानप्राप्ताभ्यः लाभः प्रदास्यते।

तेन उक्तं यत् परिवारस्य वार्षिकायः १२ लक्षरूप्यकाणाम् अधिका न भवेत्। स्कूटीसहितं पञ्जीकरणशुल्कम्, समग्रवाहनबीमा, आईएसआईचिह्नयुक्तशिरस्त्राणम्, आवश्यकोपकरणानि तथा पञ्चलीटरपेट्रोलव्ययमपि राज्यसर्वकारः वहिष्यति। स्कूटीयानानि पेट्रोलचालितानि भविष्यन्ति तथा तेषां क्रयः जेमपोर्टलद्वारा भविष्यति। दिव्याङ्गजनानां, निराश्रितपरिवाराणां तथा शहीदपरिवाराणां पुत्रीभ्यः गुणवत्ताक्रमं विना अपि एषः लाभः प्रदास्यते। प्रायः ५० सहस्र पुत्र्यः अस्याः योजनायाः लाभं प्राप्स्यन्ति।

मन्त्री उपाध्यायः अवदत् यत् भारतीयज्ञानपरम्परायै शोधपीठस्थापनसम्बद्धः प्रस्तावः अपि स्वीकृतः। प्रत्येकसहायताप्राप्तमहाविद्यालये तथा विश्वविद्यालये भारतीयज्ञानपरम्परायाः संवर्धनार्थं शोधपीठानां स्थापना भविष्यति। राष्ट्रियशिक्षानीतेः २०२० अनुशंसानुसारम् एषा पहल आरब्धा। विश्वविद्यालयेभ्यः द्विकोटिरूप्यकपर्यन्तम् तथा महाविद्यालयेभ्यः एककोटिरूप्यकपर्यन्तम् अनुदानं प्रदास्यते। एतत् अनुदानं स्थिरनिक्षेपरूपेण भविष्यति तथा शोधपीठानां सञ्चालनं तस्य व्याजेन भविष्यति। सीएसआरनिधेः अथवा पूर्वछात्रनिधेः माध्यमेन निधिसङ्ग्रहं कृत्वा एतत् वर्धयितुं शक्यते। पञ्चाशद्वर्षेभ्यः अधिकप्राचीनाः तथा पञ्चसहस्राधिकछात्रयुक्ताः महाविद्यालयाः अपि साहाय्यं प्राप्स्यन्ति। अस्य उद्देश्यं वेदोपनिषदायुर्वेदयोगगणितखगोलशास्त्रव्याकरणादीनां प्राचीनभारतीयज्ञानस्य पुनर्जीवनं युवपीढ्यां च प्रसारणम् अस्ति।

उच्चशिक्षाविभागस्य तृतीयः प्रस्तावः वाराणसीस्थे राजघाटफोर्टस्थिते बसन्तमहिलामहाविद्यालये महिलाछात्रावासनिर्माणसम्बद्धः अस्ति। एतत् काशीहिन्दूविश्वविद्यालयस्य एकम् अङ्गीभूतमहाविद्यालयम् अस्ति। एतत् ११२ वर्षेभ्यः अध्ययनक्षेत्रे सेवां प्रददाति। सम्प्रति केवलं २२० छात्राभ्यः छात्रावाससुविधा विद्यते, येन दूरस्थप्रदेशेभ्यः आगच्छन्तीनां छात्राणाम् असुविधा भवति। त्वरितआर्थिकविकासयोजनायाः अन्तर्गतं २४८.३० लक्षरूप्यकव्ययेन ११२ छात्रीणां कृते नवीनमहिलाछात्रावासस्य निर्माणं भविष्यति। अनेन छात्रीणाम् आवासीयसुविधा मनोवैज्ञानिकसमर्थनं च भविष्यति, येन शिक्षायाः अनुकूलतरं वातावरणं निर्मास्यते।

Hindusthan Samachar / Dheeraj Maithani