Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 21 जुलाईमासः (हि.स.)। उत्तराखण्डराज्ये प्रतिकूलमौसमपरिस्थितीनां दृष्ट्या जुलैमासस्य विंशतितमे दिने सावधानतावशात् अस्थायिरूपेण स्थगिता चारधामयात्रा मङ्गलवासरात् पुनः सम्यग्रूपेण प्रारब्धा।
गढ़वालमण्डलायुक्तः आनन्दस्वरूपः अवदत् यत् चारधामयात्रया सम्बद्धेषु सर्वेषु जनपदेषु प्रशासनस्य, पुलिसविभागस्य, एस्. डी. आर्. एफ्. दलस्य तथा अन्येषां सम्बद्धविभागानां समन्वयेन यात्रायाः सञ्चालनं क्रियते। यात्रामार्गाणां निरन्तरं निरीक्षणं क्रियते तथा च संवेदनशीलेषु क्षेत्रेषु विशेषसतर्कता पाल्यते।
ते यात्रिकान् प्रति प्रार्थनाम् अकुर्वन् यत् यदि यात्राकाले कस्मिंश्चित् स्थाने अतिवृष्टेः, भूस्खलनस्य अथवा अन्यकारणस्य वशात् मार्गः अस्थायिरूपेण अवरुद्धः भवेत्, तर्हि ते प्रशासननिर्धारितेषु सुरक्षितस्थानेषु अथवा होल्डिङ्ग् एरियेषु एव तिष्ठेयुः तथा च प्रशासनस्य पुलिसविभागस्य च निर्देशान् पूर्णतया पालयेयुः। ते अवदन् यत् परिस्थितयः सामान्याः भवितुम् अनन्तरमेव यात्रा अग्रे प्रचालिता भविष्यति।
गढ़वालमण्डलायुक्तः अवदत् यत् यात्रिकाणां सुरक्षा प्रशासनस्य सर्वोच्चप्राथमिकता अस्ति। सर्वेभ्यः सम्बद्धविभागेभ्यः मौसमस्य यात्रामार्गाणां च स्थितौ निरन्तरं दृष्टिं स्थापयितुं तथा च आवश्यकता उपस्थितायां त्वरितं कार्यवाहीं कर्तुम् निर्देशाः प्रदत्ताः। ते यात्रिकान् प्रार्थितवन्तः यत् यात्रारम्भात् पूर्वं मौसमस्य नवीनतमां सूचनां गृह्णीयुः तथा च केवलं प्रशासनस्य आधिकारिकसंसूचनासु एव विश्वासं कुर्वन्तु।
Hindusthan Samachar / Dheeraj Maithani