Enter your Email Address to subscribe to our newsletters

रुद्रपुरनगरम्, २१ जुलाईमासः (हि.स.)। उत्तराखण्डस्य क्रीडा-युवा-कल्याणमन्त्री रेखा आर्या अवदत् यत् मण्डलपरीक्षासु उत्कृष्टं प्रदर्शनं कृतवन्तः मेधाविनः छात्राः छात्र्यश्च प्रदेशस्य राष्ट्रस्य च उज्ज्वलं भविष्यन्ति। सा अवदत् यत् सफलता केवलं प्रतिभया न, अपितु दृढसंकल्पेन, अनुशासनेन, सुसंस्कारेण च प्राप्यते।
मङ्गलवासरे रुद्रपुर-सांस्कृतिक-मञ्चेन आयोजिते प्रतिभा-सम्मान-समारोहे सम्बोधयन्ती मन्त्री रेखा आर्या अवदत् यत् अयं समारोहः समाजे प्रतिभानां प्रोत्साहनाय सकारात्मकचिन्तनस्य संवर्धनाय च महत्त्वपूर्णः प्रयत्नः अस्ति। सा संस्थायाः सामाजिक-सांस्कृतिक-कार्य-कलापानां प्रशंसाम् अकरोत्।
सा सम्मानितान् छात्रान् छात्रींश्च सम्बोध्य अवदत् यत् तेषाम् एषा उपलब्धिः कठिनपरिश्रमस्य, अनुशासनस्य, समर्पणस्य च फलम् अस्ति। युवानः महत् लक्ष्यम् निर्धारयन्तु तथा स्वज्ञानेन स्वप्रतिभया च उत्तराखण्डस्य राष्ट्रस्य च यशः वर्धयन्तु इति सा आह्वानम् अकरोत्।मन्त्री अवदत् यत् विद्यार्थिनां सफलतायां तेषां मातापित्रोः शिक्षकाणां च महत्त्वपूर्णा भूमिका भवति। सा सर्वान् मेधाविनः छात्रान् छात्रींश्च, तेषाम् अभिभावकान् शिक्षकांश्च अभिनन्दितवती।
अस्मिन् समारोहे उत्तराखण्ड-मण्डलस्य तथा सीबीएसई-मण्डलस्य दशम-द्वादश-कक्षयोः परीक्षासु स्वस्वविद्यालयेषु सर्वोच्चस्थानं प्राप्तवन्तः त्रिनवतिः मेधाविनः छात्राः छात्र्यश्च सम्मानिताः।
Hindusthan Samachar / Divya Ranjan