Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 21 जुलाईमासः (हि.स.)।
उपराष्ट्रपतिः सी. पी. राधाकृष्णन् सिक्किमराज्यस्य नामचीजनपदे निर्माणाधीनायाः सुरङ्गायाः समीपे जाते भूस्खलनदुर्घटनायां जनानां निधनं प्रति गाढं शोकं व्यक्तवान्।
सः मङ्गलवासरे सामाजिकमाध्यमे एक्स इत्यत्र अलिखत्—“नामचीजनपदे निर्माणाधीनायाः सुरङ्गायाः समीपे जातायां दुर्घटनायां जनानां निधनवार्ता अत्यन्तं दुःखदा अस्ति। पीडितपरिवारेषु मम गाढाः संवेदनाः। ये स्वकीयान् विहाय शोकसन्तप्ताः सन्ति, तेभ्यः धैर्यं साहसं च प्रददातु भगवान्। ये अद्यापि सुरङ्गायाम् अवरुद्धाः सन्ति, ते सुरक्षितरूपेण उद्ध्रियन्ताम्। ये च आहताः सन्ति, ते शीघ्रं स्वास्थ्यलाभं कुर्वन्तु।”
उल्लेखनीयम् अस्ति यत् नामचीजनपदस्य समरदुङ्ग-झोलुङ्गे क्षेत्रे निर्माणाधीनायाः सुरङ्गायाः समीपे सहसा भूस्खलनं जातम्। तेन निकासमार्गः मलबेन पिहितः, यस्य परिणामस्वरूपं अनेकाः श्रमिकाः अन्तः अवरुद्धाः अभवन्। अन्वेषण-उद्धारकार्ये सप्त श्रमिकाणां निधनस्य पुष्टिरेव जाता।
---------------
Hindusthan Samachar / Dheeraj Maithani