छिन्दवाडा-सांसदः बण्टी-विवेक-साहू केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह अमिलत्
छिन्दवाडानगरम्, २१ जुलाईमास; (हि.स.)। मध्यप्रदेशस्य छिन्दवाडा-पांढुर्णा-संसदीय-क्षेत्रस्य सांसदः बण्टी-विवेक-साहू मङ्गलवासरे नवदेहल्यां वर्षाकालीन-संसदधिवेशनस्य अवसरे केन्द्रीय-कृषि-कृषक-कल्याण-ग्रामीण-विकासमन्त्रिणा शिवराजसिंहचौहानेन सह साक्षात्का
sansad bunty vivek sahu ne kendriy mantri shivraj singh chouhan se ki mulakat


छिन्दवाडानगरम्, २१ जुलाईमास; (हि.स.)। मध्यप्रदेशस्य छिन्दवाडा-पांढुर्णा-संसदीय-क्षेत्रस्य सांसदः बण्टी-विवेक-साहू मङ्गलवासरे नवदेहल्यां वर्षाकालीन-संसदधिवेशनस्य अवसरे केन्द्रीय-कृषि-कृषक-कल्याण-ग्रामीण-विकासमन्त्रिणा शिवराजसिंहचौहानेन सह साक्षात्कारम् अकरोत्।

अस्मिन् अवसरे सांसदः बण्टी-विवेक-साहू छिन्दवाडा-पांढुर्णा-संसदीय-क्षेत्रस्य कृषेः ग्रामीणविकासस्य च समग्रविकास-सम्बद्धान् विविधविषयान् केन्द्रीयमन्त्रिणा सह विस्तरेण चर्चितवान्। तेन छिन्दवाडा-पांढुर्णा-जनपदयोः क्षेत्रहितसम्बद्धाः महत्त्वपूर्णाः अपेक्षाः जनहितस्य विषयाश्च अपि केन्द्रीयमन्त्रिणः पुरतः प्रस्तुताः।

केन्द्रीयमन्त्री शिवराजसिंहचौहानः छिन्दवाडा-पांढुर्णा-जनपदयोः कृषि-ग्रामीणविकाससम्बद्धेषु विकासकार्येषु सर्वतोभावेन सहयोगं प्रदास्यामीति सांसदं प्रति आश्वासनम् अयच्छत्।

सांसदः बण्टी-विवेक-साहू छिन्दवाडा-पांढुर्णा-जनपदयोः विकासाय केन्द्रीय-मन्त्रिणा प्रदत्तस्य मार्गदर्शनस्य स्नेहस्य च कृते तस्य हार्दिकम् आभारम् व्यक्तवान्।

अस्मिन् अवसरे जबलपुर-सांसदः आशीष-दुबे अपि उपस्थितः आसीत्।

Hindusthan Samachar / Divya Ranjan