Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 21 जुलाईमासः (हि.स.)।
देशविदेशेभ्यः आगतस्य सिक्ख एजुकेशन बेल्जियम संस्थायाः चतुरशीतिसदस्यात्मकः श्रद्धालूनां जत्थः मङ्गलवासरे श्रीहेमकुण्डसाहिबयात्रार्थं हरिद्वारात् प्रस्थितः। यात्रायाः पूर्वं कनखलस्थिते निर्मलसन्तपुरा गुरुद्वारे विशेषकीर्तनदरबारस्य आयोजनं कृतम्, यत्र सन्तः जगजीतसिंह शास्त्री जत्थस्य सस्नेहं स्वागतं कृतवान्।
कीर्तनदरबारस्य समये संस्थायाः विद्यार्थिभिः गुरुबाणी तथा शब्दकीर्तनस्य प्रस्तुतीकरणं कृत्वा संगत् भावविह्वला कृता। जत्थे बेल्जियम जर्मनी म्यानमार भारतेभ्यः आगताः कुलम् चतुरशीतिः श्रद्धालवः समाविष्टाः सन्ति। अस्मिन् अवसरे सन्तः जगजीतसिंह शास्त्री अवदत् यत् सिक्ख एजुकेशन बेल्जियम संस्था विदेशेषु निवसतां सिक्खसमाजस्य बालकान् निःशुल्कं पञ्जाबीभाषायाः गुरुबाण्याः सिक्खइतिहासस्य च शिक्षां प्रदाय स्वधार्मिकसांस्कृतिकविरासतया सह सम्बद्धान् कर्तुं प्रशंसनीयं कार्यं करोति।
तेन उक्तं यत् स्वसंस्कृतिः स्वधर्मः गुरूणाम् शिक्षाश्च कदापि न विस्मर्तव्याः। सिक्खइतिहासः सेवा समर्पणं मानवतां च संदेशं ददाति। तेन बालकान् बाल्यकालादेव गुरुद्वारैः सह सम्बद्धान् कर्तुं सुखमनीसाहिब जपजीसाहिब नितनेम शब्दकीर्तन कथा च विषये ज्ञानं दातुं विशेषः बलः दत्तः।
जत्थस्य नेतृत्वं कुर्वती हरप्रीत कौर अवदत् यत् संस्थायाः सर्वे चतुरशीतिः सदस्याः प्रथमवारं श्रीहेमकुण्डसाहिबस्य दर्शनार्थम् आगताः सन्ति। तया उक्तं यत् अस्मात् पूर्वं सर्वे श्रद्धालवः पञ्चतख्तसाहिबानां दर्शनं कृतवन्तः, अधुना च श्रीहेमकुण्डसाहिबस्य पवित्रयात्रां प्रति प्रस्थिताः सन्ति।
अस्मिन् अवसरे गुरविन्दरसिंहः, रीता कौरः, कमलप्रीत कौरः, टॉमी सिंहः, चरणजीत कौरो, गुरबाणी कौरो, जसविन्दर कौरो, गुरवीर सिंहः, अनूप सिंहः, पुनीत कौरो, राजीव सिंहो, हरप्रीत सिंहः, सुखवीर सिंहो, बलविन्दर सिंहो, ज्ञानी पङ्कज सिंहः, अपनिन्दर कौरः, सरबजीत कौरः इत्यादयः श्रद्धालवः तथा संगत् उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani