Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 22 जुलाईमास (हि.स.)। प्रदेशस्तरीयसमन्वयकनीयानां बालकानां पादकन्दुकप्रतियोगितायै मण्डलीयदलचयनार्थं परीक्षणं बुधवासरे क्रीडाङ्गणे आयोजितम्। अपराह्णे त्रिवादनतः आरब्धे अस्मिन् परीक्षणे मण्डलस्य प्रायः पञ्चाशत् क्रीडकाः सहभागित्वा स्वप्रतिभां प्रदर्शितवन्तः।
जिल्लापादकन्दुकसङ्घस्य सचिवः मोहम्मद् नासिर कमालः अवदत् यत् परीक्षणस्य आधारेण मण्डलीयदलस्य चयनं भविष्यति। चयनिताः क्रीडकाः आगामिन्यां प्रदेशस्तरीयसमन्वयकनीयबालकपादकन्दुकप्रतियोगितायां स्वमण्डलस्य प्रतिनिधित्वं करिष्यन्ति। सः अवदत् यत् प्रदेशस्तरीयसमन्वयकनीयबालकपादकन्दुकप्रतियोगिता अगस्तमासस्य प्रथमदिनात् अष्टमदिनपर्यन्तं मऊजनपदस्य जिलाक्रीडाकार्यालये आयोजिता भविष्यति। परीक्षणकाले क्रीडकाः दले स्थानप्राप्त्यर्थं स्वपूर्णसामर्थ्यं प्रदर्शितवन्तः।
अस्मिन्नवसरे क्रीडाधिकारी सुनीलकुमारसिंहः, जिल्लापादकन्दुकसङ्घस्य संयुक्तसचिवः आमिरमिर्जा, प्रशिक्षकः सचिनबिश्नोई, पादकन्दुकमहिलाविभागस्य सचिवा माधुरीदेवी तथा अन्ये अपि उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani