श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य सभा अद्य मणिरामदास-छावनी-इत्यत्र, न्यासिनाम् आगमनम् आरब्धम्
अयोध्यानगरम्, २२ जुलाईमासः (हि.स.)। श्रीमणिरामदास-छावनी-इत्यत् अद्य बुधवासरे श्रीरामजन्मभूमितीर्थ-क्षेत्रन्यासस्य सभा भविष्यति। मङ्गलवासरादेव सभायाः कृते न्यासीनाम् आगमनम् आरब्धम्। सभायाः अध्यक्षतां न्यासाध्यक्षः तथा श्रीमणिरामदास-छावनी-इत्यस्य महन
राम मंदिर ट्रस्ट लोगो


अयोध्यानगरम्, २२ जुलाईमासः (हि.स.)। श्रीमणिरामदास-छावनी-इत्यत् अद्य बुधवासरे श्रीरामजन्मभूमितीर्थ-क्षेत्रन्यासस्य सभा भविष्यति। मङ्गलवासरादेव सभायाः कृते न्यासीनाम् आगमनम् आरब्धम्। सभायाः अध्यक्षतां न्यासाध्यक्षः तथा श्रीमणिरामदास-छावनी-इत्यस्य महन्तः नृत्यगोपालदास-महाराजः करिष्यति। सभायै न्यासस्य अन्तरिममहासचिवः कृष्णमोहनः, कोषाध्यक्षः गोविन्ददेवगिरिः च अयोध्याम् आगतवन्तौ स्तः।

अस्यां सभायां रिक्तेषु त्रिषु पदेषु नवीनानां सदस्यानां चयनस्य घोषणा च भविष्यति। पूर्वमहासचिवस्य चम्पतरायस्य तथा डॉ. अनिलमिश्रस्य त्यागपत्रयोः अनन्तरं द्वे पदे रिक्ते स्तः। अपरं च अयोध्याराज्ञः विमलेन्द्रमोहनमिश्रस्य निधनानन्तरम् एकं पदम् अद्यावधि रिक्तमेव अस्ति।

न्यासस्य सदस्यः महन्तः दिनेन्द्रदासः अवदत् यत् २२ जुलाईमासस्य अपराह्णे त्रिवादने मणिरामदास-छावनी-इत्यत्र श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य सभा भविष्यति। अस्यां सभायां न्यासस्य त्रयाणां रिक्तपदानां पूरणम्, राममन्दिरे प्राप्तानां मुद्रापत्राणां गणनाव्यवस्था, सुरक्षाप्रबन्धः तथा अन्येषां प्रशासनिकविषयाणां विषये विचारविमर्शः भविष्यति।

महन्तः दिनेन्द्रदासः अवदत् यत् न्यासस्य सभायां सर्वसम्मत्या अथवा बहुमतेन यः निर्णयः भविष्यति, तं सर्वे सदस्याः स्वीकुर्युः।

Hindusthan Samachar / Divya Ranjan