श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः उपवेशनम् : मंदिरस्य धार्मिक समितिः पुनर्गठिता,अयोध्यायाः चत्वारः प्रमुख संत कृतः सम्मिलिताः
श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य उपवेशने श्रद्धालूनां सुविधाः, मुख्यकार्यकारीअधिकारीचयनं, बैंकव्यवस्था च चर्चिता। मुख्यकार्यकारीअधिकारीचयनार्थं गठितसमित्या अधिककालस्य अपेक्षा कृता। न्यासिमण्डलेन अस्मै अखण्डसमर्थनाय समग्रसन्तसमाजाय, देशविदेशेभ्
राम मंदिर ट्रस्ट बैठक


श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य उपवेशने श्रद्धालूनां सुविधाः, मुख्यकार्यकारीअधिकारीचयनं, बैंकव्यवस्था च चर्चिता।

मुख्यकार्यकारीअधिकारीचयनार्थं गठितसमित्या अधिककालस्य अपेक्षा कृता।

न्यासिमण्डलेन अस्मै अखण्डसमर्थनाय समग्रसन्तसमाजाय, देशविदेशेभ्यः आगच्छद्भ्यः भक्तेभ्यः अवधसमाजाय च कृतज्ञता प्रकटिता।

अयोध्या, २२ जुलाईमासः। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य न्यासिमण्डलस्य उपवेशनं बुधवासरे न्यासाध्यक्षस्य महन्तनृत्यगोपालदासमहाराजस्य अध्यक्षतायां श्रीमणिरामदासछावन्यां सम्पन्नम्। उपवेशनानन्तरं न्यासस्य महासचिवेन कृष्णमोहेनेन प्रकाशितायां विज्ञप्तौ उक्तं यत् श्रावणमासे श्रद्धालूनां सम्भाव्यवृद्धिं दृष्ट्वा दर्शनव्यवस्था, न्यासिमण्डलस्य रिक्तपदानां पूरणम्, समर्पितधनराशेः गणनाव्यवस्था, मुख्यकार्यकारीअधिकारीचयनम् तथा अन्येषां प्रशासनिकधार्मिकविषयाणां विषये विस्तृतविमर्शः अभवत्।

विज्ञप्त्यानुसारं समर्पितधनराशेः गणनाप्रक्रियायां कथितानियमिततानां परीक्षणं कुर्वतः विशेषअन्वेषणदलस्य अन्तिमप्रतिवेदनम् अद्यापि न प्राप्तम्। अतः अस्मिन् विषये विस्तृता चर्चा न अभवत्। उपवेशने अस्य विषयस्य सम्बन्धिनीनां उच्चतमन्यायालये प्रचलमानानां याचिकानां श्रवणस्य न्यायालयस्य आदेशानां प्रगतेः च समीक्षा अपि कृता।

न्यासिभिः मन्दिरपरिसरे स्थापितानां दूरदर्शननिगराणीकक्षाणां सुरक्षाव्यवस्थायाः समीक्षा कृता तथा सन्तोषः व्यक्तः यत् समर्पितधनगणनाकक्षसहित सर्वेषां निगराणीकक्षाणां प्रवेशः सम्बन्धितसुरक्षाधिकारिभ्यः पूर्वमेव प्रदत्तः। सहैव एतदपि निवेदितं यत् भारतीयरिजर्वबैंकस्य सहायकसंस्थायाः टकसालस्य साहाय्येन सुवर्णरजतसमर्पणानां परिमाणस्य शुद्धतायाः च परीक्षणव्यवस्था पूर्ववत् प्रवर्तिष्यते।

उपवेशने स्टेटबैंकआफइण्डिया सह समर्पितधनराशेः गणनासम्बद्धसमझौतापत्रस्य अन्तर्गतं बैंकस्य उत्तरदायित्वानि तेषां निर्वहणे कथितदोषाः च चर्चिताः। न्यासेन अनियमिततानां प्रकाशे आगते बैंकस्य प्रतिक्रियायां अपेक्षितगम्भीरतायाः अभावे निराशा व्यक्ता। न्यासिमण्डलेन न्यासस्य वित्तसमितये बैंकसह भविष्यसम्बन्धानां मानकसञ्चालनप्रक्रियाणां च समीक्षा कृत्वा आवश्यकनिर्णयग्रहणस्य निर्देशः प्रदत्तः।

मुख्यकार्यकारीअधिकारीचयनार्थं गठितसमित्या बहूनाम् आवेदनानां प्राप्तेः कारणात् चयनप्रक्रियायाः समापनाय एकमासस्य अतिरिक्तकालः याचितः। न्यासिमण्डलेन एषः अनुरोधः स्वीकृतः तथा अन्तरिमव्यवस्थारूपेण सचिवस्य नियुक्तिः अनुमोदिता, येन श्रद्धालूनां वर्धमानसंख्यायां प्रशासनिककार्याणि न प्रभावितानि भवेयुः।

उपवेशने एतदपि उक्तं यत् विविधदुष्प्रचाराणां आरोपाणां च उपस्थितौ अपि श्रीरामजन्मभूमिमन्दिरे दर्शनार्थम् आगच्छतां श्रद्धालूनां सङ्ख्यायां कापि न्यूनता न अभवत्। न्यासेन एतत् कोटिशः रामभक्तानाम् अखण्डश्रद्धाविश्वासयोः प्रमाणम् इति मन्यमानेन सन्तसमाजाय, देशविदेशेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः तथा अयोध्यायाः स्थानीयसमाजाय कृतज्ञता प्रकटिता।

समाजेन सह प्रभाविसंवादस्य संरक्षणस्य आवश्यकतां दृष्ट्वा न्यासेन आधिकारिकप्रवक्तुः नियुक्तेः निर्णयः कृतः। सहैव न्यासिमण्डलस्य रिक्तपदानां पूरणप्रक्रियायाः समीक्षा कृता तथा एषा प्रक्रिया सम्पूर्णतां प्राप्तुं अद्यापि कतिपयानि सप्ताहानि अपेक्षन्ते इति उक्तम्।

उपवेशने मन्दिरपरिसरे पूजार्चनायाः परम्परागतप्रामाणिकतां धार्मिकशुद्धिं च संरक्षितुं धार्मिकसमितेः पुनर्गठनम् अपि कृतम्। स्वामी गोविन्ददेवगिरिः अस्याः समितेः अध्यक्षः भविष्यति। समितौ जगद्गुरुः शङ्कराचार्यः ज्योतिष्पीठाधीश्वरः स्वामी वासुदेवानन्दसरस्वती, मध्वपीठाधीश्वरः स्वामी विश्वप्रसन्नतीर्थः, स्वामी दिनेन्द्रदासः निर्मोहीअखाडा, स्वामी कमलनयनदासः मणिरामछावनी, महन्त राजकुमारदासः रमावल्लभकुञ्ज, स्वामी रामानन्ददासः रामकथाकुञ्ज तथा स्वामी मिथिलेश्नन्दिनीशरणः सदस्यतया नियुक्ताः।

Hindusthan Samachar / Dheeraj Maithani