Enter your Email Address to subscribe to our newsletters

सोनारी (असमः), 22 जुलाईमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा बुधवासरे सोनारीक्षेत्रे बाढाप्रभावितप्रदेशान् परिभ्रम्य घोषणां कृतवान् यत् बाढायां प्राणान् विहाय गतानां जनानां परिजनान् प्रति राज्यसरकारस्य पक्षतः प्रथमचरणे त्वरितम् एव चत्वारिलक्षरूप्यकाणां अनुग्रहराशिः प्रदास्यते। तेन उक्तं यत् अनन्तरचरणे तेभ्यः अन्यदपि किञ्चित् प्रदातुं शक्यते।
मुख्यमन्त्री राहतकार्याणां समीक्षायाः अनन्तरं माध्यमैः सह वार्तालापे उक्तवान् यत् जनपदप्रशासनस्य माध्यमेन बाढाप्रभावितजनानां कृते सर्वसम्भवा सहायता प्रदीयते। तेन सूचितं यत् केषाञ्चन ग्रामाणां प्रति अद्यापि राहतसामग्री न प्रापिता, यतः तत्र गन्तुं कश्चन मार्गः नास्ति।
तेन उक्तं यत् दुर्गमप्रदेशेषु हवाईमार्गेणापि राहतसामग्री प्रेष्यते, किन्तु प्रत्येकस्मै प्रभावितव्यक्तये प्रत्यक्षतया हवाईमार्गेण सहायता प्रापयितुं व्यवहारदृष्ट्या महती चुनौती वर्तते।
मुख्यमन्त्री विश्वासं प्रदत्तवान् यत् राज्यसरकारः सर्वसम्भवान् प्रयत्नान् करोति, येन सर्वेषां बाढाप्रभावितपरिवाराणां समीपं यथाशीघ्रं रक्षणसामग्री प्रापयितुं शक्येत।
------------
Hindusthan Samachar / Dheeraj Maithani