'देशस्य युवा अराजकतायाः यंत्रं न, राष्ट्र निर्माता अस्ति'- बांसुरी स्वराजः
नव दिल्ली, 22 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य सांसदा बांसुरी स्वराज कॉकरोचजनतापक्षस्य आन्दोलनं प्रति उक्तवती यत् सम्पूर्णस्य आन्दोलनस्य अवधौ सर्वकारेण संवेदनशीलः दृष्टिकोणः स्वीकृतः तथा शान्तिपूर्णप्रदर्शने किमपि हस्तक्षेपः न कृतः। देशे सर्व
भाजपा सांसद बांसुरी स्वराज


नव दिल्ली, 22 जुलाईमासः (हि.स.)।

भारतीयजनतापक्षस्य सांसदा बांसुरी स्वराज कॉकरोचजनतापक्षस्य आन्दोलनं प्रति उक्तवती यत् सम्पूर्णस्य आन्दोलनस्य अवधौ सर्वकारेण संवेदनशीलः दृष्टिकोणः स्वीकृतः तथा शान्तिपूर्णप्रदर्शने किमपि हस्तक्षेपः न कृतः। देशे सर्वकारस्य विरुद्धं जनानां मध्ये भ्रमप्रसारणस्य प्रयत्नः क्रियते। सा उक्तवती यत् देशस्य युवा अराजकतायाः साधनं न, अपितु भारतस्य राष्ट्रनिर्माता अस्ति।

बुधवासरे भाजपामुख्यालये आयोजितायां पत्रकारवार्तायां बांसुरी स्वराज उक्तवती यत् आन्दोलनस्य संयोजकः अभिजीत दिपके इत्यस्मै देहलीपुलिसेन विमानस्थानके एव प्रदर्शनस्य अनुमतिः प्रदत्ता आसीत्। तदनन्तरं प्रदर्शनकारिणः एकविंशतिदिनपर्यन्तं जन्तरमन्तरे धरनायां उपविष्टाः आसन्। यावत् प्रदर्शनं शान्तिपूर्णम् आसीत् तावत् तान् निष्कासयितुं कश्चन प्रयासः न कृतः।

बांसुरी स्वराज उक्तवती यत् विंशतितमे जुलैमासस्य दिने प्रदर्शनकारिभिः संसदं गच्छाम इति आह्वानं कृतम् तथा अनुमतिं विना संसदः परितः घेरावस्य प्रयासः कृतः। तथापि देहलीपुलिसेन संयमः पालितः तथा परिस्थितेः नियन्त्रणस्य प्रयासः कृतः। सा उक्तवती यत् लोकतन्त्रे संसद्सदृशानां संस्थानां सम्मानः सर्वोपरि अस्ति।

भाजपासांसदा अभ्यधात् यत् केन्द्रसर्वकारः आदितः एव प्रदर्शनकारिभिः सह संवादाय सज्जः आसीत्। सा अवदत् यत् यदा प्रदर्शनकारिणः केन्द्रीयस्वास्थ्यमन्त्री जेपी नड्डा इत्येनं प्रति समागच्छन् तदा तेषां समीपे स्वमागणानां लिखितसूची न आसीत्। नड्डा तान् स्वमागणाः लिखितरूपेण दातुम् उक्तवान्, ततः सूचीनिर्माणे प्रायः द्व्यर्धघण्टाकालः अभवत्। सा उक्तवती यत् सर्वकारेण सभायां स्पष्टतया उक्तम् आसीत् यत् संवादेन समाधानं प्राप्तुं पूर्णः प्रयासः भविष्यति तथा आन्दोलनस्य समाप्त्यै अपि प्रार्थना कृता आसीत्।

तस्मिन् समये प्रदर्शनकारिणः आन्दोलनस्य समाप्तेः आश्वासनं दत्तवन्तः, किन्तु अनन्तरं स्वप्रतिज्ञातः प्रत्यपसर्पन्।

बांसुरी स्वराज आन्दोलनस्य अवधौ भ्रामकदावानाम् आरोपम् अपि अकरोत्। सा उक्तवती यत् अनेके आरोपाः कृताः येषां वास्तविकतया सह कश्चिदपि सम्बन्धः नास्ति। द्वादशवर्षीयायाः बालिकायाः आहतत्वस्य दावा अपि तया मिथ्या इति उक्तः तथा एतादृशैः समाचारैः जनानां मध्ये भ्रमप्रसारणस्य प्रयासः कृतः इति प्रतिपादितम्।

सा उक्तवती यत् गतत्रिमासेषु एनटीए संस्थया जेईई, सीयूईटी तथा नीट इत्यादयः त्रयः राष्ट्रियस्तरीयाः परीक्षाः सफलतया आयोजिताः। अतः देशस्य शिक्षाव्यवस्था, विशेषतः परीक्षाव्यवस्था, सम्पूर्णतया ध्वस्ता अभवत् इति वक्तुं सर्वथा मिथ्या तथा भ्रमप्रसारणस्य एव प्रयासः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani