छत्तीसगढे मुख्यमन्त्रिणः विष्णुदेव-सायस्य अध्यक्षतायाम् अद्य मन्त्रीमण्डलस्य सभा
रायपुरनगरम्, २२ जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्रिण: विष्णुदेव-सायस्य अध्यक्षतायाम् अद्य बुधवासरे मन्त्रिमण्डलस्य सभा आयोजिता भविष्यति। एषा सभा प्रातः ११:३० वादने मन्त्रालयस्थिते मन्त्रिपरिषदः सभाकक्षे भविष्यति। अस्यां सभायां जनहित-सम्बद्ध
छत्तीसगढ़  में कैबिनेट बैठक  फाइल फाेटाे


रायपुरनगरम्, २२ जुलाईमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्रिण: विष्णुदेव-सायस्य अध्यक्षतायाम् अद्य बुधवासरे मन्त्रिमण्डलस्य सभा आयोजिता भविष्यति। एषा सभा प्रातः ११:३० वादने मन्त्रालयस्थिते मन्त्रिपरिषदः सभाकक्षे भविष्यति। अस्यां सभायां जनहित-सम्बद्धानां अनेकविषयाणां विषये विचारविमर्शः भविष्यति।

अस्यां मन्त्रिमण्डलसभायां राज्यस्य विकासः, जनहितसम्बद्धाः विषयाः, शासकीयनीतयः तथा विविधविभाग-सम्बद्धाः अनेकाः महत्त्वपूर्णाः प्रस्तावाः चर्चानन्तरं अनुमोदिताः भविष्यन्तीति सम्भावना वर्तते। विधान-सभायाः वर्षाकालीनसत्रस्य समापन-अनन्तरम् आहूता एषा मन्त्रिमण्डलसभा छत्तीसगढ-सर्वकारस्य अग्रिमरणनीतीनां नवीन-योजनानां च अनुमोदनदृष्ट्या अत्यन्तं महत्त्वपूर्णा मन्यते।

Hindusthan Samachar / Divya Ranjan