मुख्यमंत्री सायः अंताराष्ट्रिय लोक कलाकारस्य विक्रम यादवस्य स्वास्थ्यगतसूचनां संज्ञातवान्
-उत्तमम् उपचारं सुनिश्चितंकर्तुं जिलाप्रशासनाय दत्तो निर्देशः रायपुरम् 22 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायोऽद्य प्रातः बुधवासरे अन्ताराष्ट्रियख्यातिप्राप्तस्य लोककलाकारस्य प्रख्यातवंशवादकस्य विक्रमयादवस्य परिजनैः दूरभाषमाध्यमेन संवाद
मुख्यमंत्री साय एवं लोक कलाकार विक्रम यादव की फाइल फाेटाे


-उत्तमम् उपचारं सुनिश्चितंकर्तुं जिलाप्रशासनाय दत्तो निर्देशः

रायपुरम् 22 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायोऽद्य प्रातः बुधवासरे अन्ताराष्ट्रियख्यातिप्राप्तस्य लोककलाकारस्य प्रख्यातवंशवादकस्य विक्रमयादवस्य परिजनैः दूरभाषमाध्यमेन संवादं कृत्वा तस्य स्वास्थ्यस्थितेः सूचना प्राप्तवान्। मुख्यमन्त्री परिजनान् आश्वासितवान् यत् राज्यसर्वकारः तस्य समुचितचिकित्सायै आवश्यकसहयोगाय च पूर्णसंवेदनशीलतया तेषां सह स्थितः अस्ति तथा चिकित्सायां कस्यापि प्रकारस्य न्यूनता न भविष्यति।

मुख्यमन्त्री श्रीसाय राजनान्दग्रामस्य जिलाधिकारिणा सह अपि दूरभाषमाध्यमेन संवादं कृत्वा विक्रमयादवस्य चिकित्सायाः अद्यतनसूचना प्राप्तवान्। सः निर्देशान् दत्तवान् यत् वरिष्ठविशेषज्ञवैद्यैः पर्यवेक्षणे तस्य श्रेष्ठचिकित्सा सुनिश्चितीक्रियताम् तथा आवश्यकतानुसारं सर्वाः आवश्यकाः चिकित्सासुविधाः तत्कालमेव उपलब्धाः क्रियन्ताम्।

मुख्यमन्त्री विष्णुदेव सायः उक्तवान् यत् विक्रमयादवः केवलं छत्तीसगढस्य एव न अपितु सम्पूर्णस्य देशस्य सांस्कृतिकधरोहरः अस्ति। स्वीयया विशिष्टया वंशवादनशैल्या सः छत्तीसगढस्य लोकसंस्कृतेः भारतस्य समृद्धपरम्पराणां च अन्ताराष्ट्रियमञ्चेषु विशिष्टां परिचितिं प्रदत्तवान्। मुख्यमन्त्री विष्णुदेव साय विक्रमयादवस्य शीघ्रस्वास्थ्यलाभस्य कामनां कृत्वा उक्तवान् यत् प्रदेशसर्वकारः लोककलाकाराणां सम्मानसंरक्षणकल्याणार्थं निरन्तरं कार्यं करोति।

उल्लेखनीयम् अस्ति यत् अन्ताराष्ट्रियस्तरे स्वीयया विशिष्टया वंशवादनशैल्या प्रसिद्धः विक्रमयादवः सम्प्रति अस्वस्थः अस्ति तथा तस्य चिकित्सा राजनान्दग्रामचिकित्सामहाविद्यालये प्रचलति।

Hindusthan Samachar / Dheeraj Maithani