सी.जे.पी.वर्यः नड्डायाः निवासं गन्तुं निराकरोति, जन्तर-मन्तरस्य समीपे तटस्थस्थले वार्तालापं कर्तुम् इच्छति
नवदेहली, २२ जुलाईमास: (हि.स.)। सामाजिकमाध्यमप्रभावकानां सङ्घटनम् सी.जे.पी. केन्द्रीयस्वास्थ्य-परिवार-कल्याणमन्त्रिणः जे.पी. नड्डायाः निवासे वार्तालापार्थं गन्तुं निराकृतवान्। सङ्घटनेन स्पष्टतया उक्तं यत् वार्तालापः जन्तर-मन्तरे अथवा तस्य समीपे कस्म
सीजेपी के प्रवक्ता सौरभ दास पत्रकारों को बयान देते हुए।


नवदेहली, २२ जुलाईमास: (हि.स.)। सामाजिकमाध्यमप्रभावकानां सङ्घटनम् सी.जे.पी. केन्द्रीयस्वास्थ्य-परिवार-कल्याणमन्त्रिणः जे.पी. नड्डायाः निवासे वार्तालापार्थं गन्तुं निराकृतवान्। सङ्घटनेन स्पष्टतया उक्तं यत् वार्तालापः जन्तर-मन्तरे अथवा तस्य समीपे कस्मिंश्चित् तटस्थस्थले एव भवेत्।

बुधवासरे पत्रकारैः सह संवादं कुर्वन् सी.जे.पी.-प्रवक्ता सौरभदासः अवदत् यत् अद्य प्रातः आरक्षकाधिकारिभिः सी.जे.पी.-प्रतिनिधयः सम्पर्किताः, येन सूचितम् आसीत् यत् केन्द्रीयमन्त्री नड्डाः तैः सह वार्तालापम् इच्छन्ति, अतः स्वनिवासे तान् आमन्त्रितवन्तः। किन्तु सी.जे.पी. तत्प्रस्तावं निराकृतवती।

सौरभदासः अवदत् यत् सी.जे.पी.-सङ्घटनस्य कश्चन प्रतिनिधिः कस्यापि मन्त्रिणः गृहं कार्यालयं वा न गमिष्यति। जन्तर-मन्तरे जनतादरबारस्य आयोजनं भवति; यदि सर्वकारः संवादम् इच्छति, तर्हि मन्त्रिणः जनानां मध्ये स्वयमेव आगच्छेयुः। यदि सुरक्षाकारणात् ते जन्तर-मन्तरम् आगन्तुं न शक्नुवन्ति, तर्हि विरोधस्थलस्य समीपे तटस्थस्थले वार्तालापाय सी.जे.पी. सज्ज: वर्तते। इदानीं वयं केन्द्रीयमन्त्रिणः प्रतिक्रियायाः प्रतीक्षां कुर्मः।

दासः पुनरपि अवदत् यत् सर्वकारस्य लक्ष्यं तेषां याचनानां विषये दृढनिर्णयग्रहणं भवेत्, न केवलम् औपचारिकवार्तालापः। सार्थकफलाभावे चर्चायाः आह्वानस्य किमपि प्रयोजनं नास्ति। अद्यापि सहस्रशः जनाः प्रदर्शने सहभागीभूताः सन्ति, तथा च सी.जे.पी.-सङ्घटनस्य सम्पूर्णं ध्यानम् आन्दोलनस्य सञ्चालनम् एव केन्द्रितम् अस्ति। सर्वकारेण एतत् स्पष्टं कर्तव्यं यत् सः वस्तुतः आन्दोलनकारिभिः सह सार्थकसंवादम् इच्छति वा न वा।

उल्लेखनीयम् अस्ति यत् २० जुलाई दिनाङ्के संसदयात्रायाः समये सी.जे.पी.-सङ्घटनस्य द्विसदस्यीयं प्रतिनिधिमण्डलं जे.पी. नड्डायाः निवासं गत्वा स्मारकपत्रं समर्पितवान् आसीत्। तस्मिन् प्रतिनिधि-मण्डले सौरभदासः तथा आशुतोषरङ्का सम्मिलितौ आस्ताम्। तदा नड्डाः सी.जे.पी.-सङ्घटनं स्वस्य आन्दोलनम् उपसंहरितुम् अनुरोधितवन्तः।

Hindusthan Samachar / Dheeraj Maithani