Enter your Email Address to subscribe to our newsletters

पटनानगरम्, २२ जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट-चौधरी बुधवासरे राजधानी-पटनानगरे गङ्गातटे स्थितानां भद्र-घट्टस्य, महावीर-घट्टस्य तथा नौजर-घट्टस्य सौन्दर्यीकरण-विकास-कार्याणां लोकार्पणम् अकरोत्। बिहार-नगरीय-आधारभूत-संरचना-विकास-निर्माण्या ४६.२६ कोटि-रूप्यकाणां व्ययेन विकसिताः एते घट्टाः आधुनिक-सुविधाभिः सुसज्जिताः सन्ति। अनेन श्रद्धालुभ्यः, स्थानीय-नागरिकेभ्यः तथा पर्यटकेभ्यः सुरक्षिताः, स्वच्छाः तथा उत्कृष्टाः सार्वजनिक-सुविधाः उपलब्धाः भविष्यन्ति।
लोकार्पणानन्तरं मुख्यमन्त्री त्रयाणामपि घट्टानाम् निरीक्षणम् अकरोत् तथा अधिकारिभ्यः विकास-कार्याणां विस्तृतां सूचनाम् अलभत। अधिकारिभिः स्थल-योजनायाः माध्यमेन परियोजनायाः विविध-अङ्गानां, निर्माण-कार्याणां तथा प्रदत्त-सुविधानां विषये विस्तरेण निवेदनं कृतम्।
निरीक्षणस्य समये मुख्यमन्त्री गङ्गाजलस्य स्पर्शं कृत्वा मातरं गङ्गां प्रणम्य राज्यस्य सुख-समृद्धि-शान्ति-समृद्ध्यर्थं प्रार्थनाम् अकरोत्। सः अवदत् यत् राज्य-सर्वकारः धार्मिक-सांस्कृतिक-पर्यटन-स्थलानां विकासेन सह नागरिकेभ्यः उत्तमाः आधारभूत-सुविधाः प्रदातुं निरन्तरं कार्यं करोति।
बुडको-निर्माण्या विकसितेषु एतेषु घट्टेषु श्रद्धालूनां सुविधां दृष्ट्वा आवश्यकम् आधारभूत-संरचनं निर्मितम् अस्ति। परियोजनायाः अन्तर्गतं घट्टाः अधिक-सुरक्षिताः, स्वच्छाः, सुव्यवस्थिताश्च निर्मिताः सन्ति, येन छठ-महापर्व-सहितेषु अन्येषु धार्मिक-आयोजनेषु बहुसंख्यक-श्रद्धालूनां सुविधा भविष्यति। तदनन्तरं नदी-तटस्य सौन्दर्यीकरणेन राजधानी-नगरस्य पर्यटनस्य नगरीय-विकासस्य च प्रोत्साहनम् अपि भविष्यतीति अपेक्षा अस्ति।
कार्यक्रमस्य अवसरे स्थानीय-जनप्रतिनिधिभिः, जनप्रतिनिधि-संस्थानां प्रतिनिधिभिः तथा नगर-विकास-आवास-विभागस्य वरिष्ठ-अधिकारिभिः मुख्य-मन्त्रिणः पुष्पगुच्छेन अङ्गवस्त्रेण च स्वागतं कृतम्। अस्मिन् अवसरे विभागीय-अधिकारिणः, प्रशासनिक-पदाधिकारिणः तथा अन्ये गणमान्य-जनाः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan