Enter your Email Address to subscribe to our newsletters


गोरखपुरनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य गोरखपुर-जनपदे विगत-दिनेषु जातायां मूसलधार-वृष्टौ असुरन-चतुष्पथे स्थितस्य राप्ती-कॉम्प्लेक्स-इत्यस्य समीपे नालिकायाः भग्नत्वात् जातेन जलावरोधेन प्रभावितानां वणिजां तथा जलावरोध-समस्यया पीडितानां गोरक्ष-एङ्क्लेव-निवासिनां प्रतिनिधि-मण्डलं बुधवासरे एनेक्सी-भवने मुख्यमन्त्रिणा योगी-आदित्यनाथेन सह अमिलत्।
राप्ती-कॉम्प्लेक्स-इत्यस्य भूतलस्थितानां गोरक्ष-एङ्क्लेव-निवासिनां समस्याः श्रुत्वा मुख्यमन्त्री तेषां समस्याणां समाधानस्य आत्मीयं आश्वासनम् अयच्छत्। तेन आयुक्ताय प्रतिनिधि-मण्डलेन प्रस्तुतानां सर्वेषां विषयाणां प्रभावी-समाधानं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः।
मुख्यमन्त्री जलनिर्गमन-व्यवस्थां सुदृढां कर्तुं तथा वणिजां समस्यानां समाधानाय विशेषं ध्यानं दातुम् अपि निर्दिष्टवान्। मुख्यमन्त्रिणा सह मिलनान्तरं वणिजः नागरिकाश्च समाधानस्य विषये सन्तुष्टाः दृश्यन्ते स्म।
Hindusthan Samachar / Divya Ranjan