Enter your Email Address to subscribe to our newsletters


बलरामपुरम् 22 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः स्वस्य द्विदिवसीयदेवीपाटनप्रवासस्य द्वितीयदिने बुधवासरे गुप्तनवरात्रेः अष्टम्यां शक्तिपीठे देवीपाटनमन्दिरे विधिविधानपूर्वकं मातुः पाटेश्वर्याः पूजार्चनां कृतवान्। सः मातरं प्रति प्रदेशस्य देशस्य च सुखसमृद्धेः शान्तेः खुशहाल्याः च प्रार्थनाम् अकरोत्।
मुख्यमन्त्री मङ्गलवासरस्य सायंकाले प्रायः पञ्चवादने देवीपाटनमन्दिरम् आगतः आसीत्। मन्दिरे रात्रिविश्रामं कृत्वा बुधवासरे प्रातः प्रायः सप्तवादने सः मन्दिरस्य गर्भगृहम् अगच्छत् यत्र तेन अष्टमीपूजनं विशेषाराधना च कृता। दर्शनपूजनयोः अनन्तरं मुख्यमन्त्री देवीपाटनपीठाधीश्वरेण महन्तेन मिथिलेशनाथयोगिमहाराजेन सह मन्दिरपरिसरस्य भ्रमणं कृतवान्। ततः अनन्तरं मुख्यमन्त्री मन्दिरपरिसरस्थितां गोशालाम् अगच्छत् यत्र तेन स्वहस्तैः गवां कृते हरिततृणं प्रदत्तं ताः स्नेहेन च स्पृष्टाः। गोशालायां किञ्चित्कालं यापयित्वा सः पुनः मन्दिरपरिसरम् आगतः। अस्मिन् समये मार्गे स्थितेभ्यः लघुबालकेभ्यः मुख्यमन्त्री चाकलेटनामकं मिष्टान्नं वितरितवान् तैः सह आत्मीयतया मिलितवान् च।
मुख्यमन्त्रिणः दर्शनकाले मन्दिरे उपस्थितेषु श्रद्धालुषु महान् उत्साहः आसीत्। श्रद्धालवः मुख्यमन्त्री योगी आदित्यनाथः जयी भवतु तथा जय मातः पाटेश्वरि इति जयघोषान् अकुर्वन्। मुख्यमन्त्री अपि श्रद्धालूनाम् अभिवादनं स्वीकृतवान्।
उल्लेखनीयम् अस्ति यत् मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरस्य सायंकाले देवीपाटनमन्दिरम् आगतः आसीत्। आगमनानन्तरं तेन जनप्रतिनिधिभिः अधिकारिभिः च सह मिलित्वा क्षेत्रे प्रचलमानानां विकासकार्याणां समीक्षा कृता तथा विविधयोजनानां विषये चर्चा कृता। बुधवासरे पूजार्चनां गोसेवां च सम्पन्न्य मुख्यमन्त्री लखनऊनगराय प्रस्थितवान्।
Hindusthan Samachar / Dheeraj Maithani