Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 जुलाईमासः (हि.स.)। काङ्ग्रेसदलस्य पक्षे प्रश्नपत्रप्रस्रवणम् परीक्षासु विलम्बः नियुक्तिप्रक्रियायाम् अनिश्चितता शिक्षायाः वर्धमानव्ययः बेरोजगारी च इत्यादीन् विषयान् आधृत्य प्रवर्तमानस्य छात्राणां घोषः अभियानस्य राष्ट्रव्यापिविस्तारस्य घोषणा कृता। अस्याः योजनायाः अन्तर्गतं गुरुवासरे २३ जुलै दिनाङ्के देशस्य सर्वेषु महाविद्यालयेषु विश्वविद्यालयेषु प्रशिक्षणसंस्थासु छात्रावासेषु अन्येषु च शैक्षणिकपरिसरेषु विशेषछात्रसंवादकार्यक्रमाः आयोजयिष्यन्ते। एतेषु कार्यक्रमेषु काङ्ग्रेसदलस्य नेतारः छात्रैः सह प्रत्यक्षसंवादं करिष्यन्ति तेषां समस्याः श्रोष्यन्ति राहुलगान्धिनः छात्राणां घोषः अभियानस्य उद्देश्यान् तान् अवबोधयिष्यन्ति तथा प्रश्नपत्रप्रस्रवणम् नियुक्तिपरीक्षासु अनियमितता बेरोजगारी च इत्यादीन् विषयान् अधिकृत्य चर्चां करिष्यन्ति।
काङ्ग्रेसदलस्य महासचिवः सङ्गठनविभागस्य केसी वेणुगोपालः बुधवासरे प्रदत्ते वक्तव्ये अवदत् यत् देशस्य सर्वे छात्राः शिक्षा रोजगारयोः सम्बद्धान् गम्भीरान् सङ्कटान् सम्मुखीकुर्वन्ति। एतेषु विषयेषु काङ्ग्रेसदलः निरन्तरम् स्वरम् उत्थापयति अधुना च एतदभियानं प्रत्यक्षतया छात्राणां समीपं नीयते।
वेणुगोपालः अवदत् यत् राहुलगान्धिना १७ जून दिनाङ्के राजस्थानस्य कोटानगरात् छात्राणां घोषः अभियानस्य प्रारम्भः कृतः यः १७ जुलै दिनाङ्के उत्तराखण्डस्य देहरादूननगरे अग्रे प्रवर्तितः। अस्य अभियानस्य उद्देश्यं शिक्षाव्यवस्थां कथितभ्रष्टाचारात् शोषणात् अव्यवस्थातः च विमोचयितुं छात्राणां स्वरं च राष्ट्रियविमर्शस्य प्रमुखभागं कर्तुम् अस्ति।
तेन आरोपः कृतः यत् २१ जुलै दिनाङ्के काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखरगे लोकसभायां प्रतिपक्षनेता राहुलगान्धी काङ्ग्रेसदलस्य महासचिवा प्रियङ्कागान्धी वाड्रा अन्ये च विपक्षीयनेतारः दिल्लीनगरे छात्रप्रदर्शनकारिषु कृते पुलिसकार्यवाह्याः विरोधार्थं प्रधानमन्त्रिणः निवासस्य बहिः शान्तिपूर्णप्रदर्शनम् अकुर्वन्। प्रदर्शनकाले नेतृषु कार्यकर्तृषु च पुलिसद्वारा बलप्रयोगः कृतः।
काङ्ग्रेसदलेन स्वनेतृभ्यः पदाधिकरिभ्यः च निर्देशः प्रदत्तः यत् ते तत्क्षणमेव सम्बन्धितनगरसमन्वयकैः सह सम्पर्कं कुर्वन्तु निर्धारितस्थानेषु च उपस्थिताः भूत्वा छात्रैः सह संवादं स्थापयन्तु। दलस्य निर्देशानुसारं कार्यक्रमकाले पत्रकारवार्ता आयोजयिष्यते राहुलगान्धिनः कोटासम्बोधनस्य दृश्यश्रव्यप्रस्तुतिः प्रदर्शयिष्यते तथा प्रश्नपत्रप्रस्रवणम् परीक्षाव्यवस्था नियुक्तिप्रक्रियाः बेरोजगारी च इत्यादीन् विषयान् अधिकृत्य विस्तरेण चर्चा भविष्यति।
काङ्ग्रेसदलेन नेतृभ्यः निर्देशः प्रदत्तः यत् ते छात्रेभ्यः छात्राणां घोषः अभियानस्य उद्देश्यं गतिविधयः प्रमुखमाङ्गल्याः च सूचयेयुः तथा तान् अभियानस्य जालपुटे पञ्जीकरणं कृत्वा सक्रियभागग्रहणाय प्रेरयेयुः। वक्तव्ये उक्तं यत् अयं संवादः एकपक्षीयः न भवेत् अपितु सहभागितामूलकः भवेत् येन छात्राः स्वानुभवान् समस्याः सुझावान् आकाङ्क्षाः च निर्भयतया प्रकाशयितुं शक्नुयुः।
वक्तव्ये उक्तं यत् यूनां छात्राणां च भविष्येन सम्बद्धेषु विषयेषु उत्तरदायित्वस्य सुनिश्चितीकरणाय शिक्षाव्यवस्थायाः विश्वसनीयतायाः पुनःस्थापनाय रोजगारसम्बद्धचिन्तानां प्रमुखतया प्रस्तुतीकरणाय च राष्ट्रव्यापिजनदबावस्य निर्माणम् आवश्यकम् अस्ति।
------------
Hindusthan Samachar / Dheeraj Maithani