Enter your Email Address to subscribe to our newsletters

देवरियानगरम्, २२ जुलाईमासः (हि.स.)। जनपदे पशून् खुरपका-मुखपका-रोगात् संरक्षितुं बुधवासरे ४५-दिवसीयस्य निःशुल्क-एफ.एम.डी.-टीकाकरणाभियानस्य शुभारम्भः अभवत्। समाहर्तृ-परिसरे आयोजिते कार्यक्रमे जनपदाधिकारी मधुसूदन-हुल्गी मुख्य-विकासाधिकारी राजेशकुमारसिंहः, मुख्य-राजस्वाधिकारी विवेककुमारसिंहः तथा मुख्यपशुचिकित्साधिकारी डाॅ. श्रीनिवास-प्रसादः इत्येतेषां सह टीकाकरणदलानि हरितध्वजं प्रदर्श्य प्रेषितवान्।
अस्मिन् अवसरे जनपदाधिकारी अधिकारिभ्यः टीकाकरणदलस्य सदस्येभ्यश्च निर्देशान् दत्तवान् यत् अभियानस्य अवधौ प्रत्येकं ग्रामे गृहं गृहं गत्वा निर्धारितकार्यक्रमानुसारं पशूनां निःशुल्कटीकाकरणं क्रियताम्। तेन ग्रामप्रधानानां जागरूकपशुपालकानां च सहयोगेन अभियानं सफलं कर्तुं तथा च यथासम्भवं अधिकाधिकपशूनां टीका-करणं सुनिश्चितं कर्तुं विशेषबलं दत्तम्।
मुख्यपशुचिकित्साधिकारी डाॅ. श्रीनिवासप्रसादः अवदत् यत् पञ्च-चत्वारिंशद्दिनात्मकस्मिन् अभियाने दलानि जनपदस्य सर्वेषु विकासखण्डेषु गत्वा पशूनां निःशुल्कटीकाकरणं करिष्यन्ति। टीकाकरणेन सह प्रत्येकस्य पशोः विवरणं पशुपालकात् ओ.टी.पी. प्राप्त्वा भारत-पशुधन-एप् इत्यस्मिन् अनुप्रयोगे तत्क्षणमेव वास्तविकसमये अन्तर्जालमार्गे अभिलेख्यते, येन टीकाकरणस्य डिजिटल-अभिलेखः सिद्धः भविष्यति।
कार्यक्रमे उपमुख्यपशुचिकित्साधिकारी डाॅ. ओमप्रकाश-प्रजापतिः, डाॅ. विनोद-कुमारसिंहः, पशुचिकित्साधिकारी डाॅ. सतीशकुमारः, डाॅ. सुनीलकुमारः, डाॅ. धोबीराजेश-रौनकः, एल.ई.ओ. शिवराम-पति-त्रिपाठी, पीयूष-श्रीवास्तवः, निशाकान्त: तिवारी, विष्णुदेव-गौण्डः, राकेशकुमार-भारती तथा विविधविकास-खण्डानां पैरावेट-कर्मचारिणः टीकाकरण-दलस्य सदस्याश्च उपस्थिताः आसन्।
अधिकारिभिः पशुपालकान् प्रति आह्वानं कृतं यत् ते स्वपशूनां समये टीकाकरणं कारयेयुः तथा च टीकाकरणदलानां आवश्यकं सहयोगं प्रदद्युः, येन जनपदः खुरपका-मुखपका-रोगात् सुरक्षितः स्थापयितुं शक्येत।
Hindusthan Samachar / Divya Ranjan