Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेश-सर्वकारेण प्रदेशे पशुचिकित्सा-सेवासु तथा पशु-स्वास्थ्यसंवर्धनस्य अन्तर्गतं पशु-जैविक-औषधि-संस्थानस्य सुदृढीकरणार्थं वर्तमान-वित्तीयवर्षे ६० लक्षं ७० सहस्रं रूप्यकाणां धनराशिः अनुमोदिता। अस्य विषये पशुधन-विभागेन शासनादेशः निर्गतः अस्ति।
शासनादेशे रोगनियन्त्रण-प्रक्षेत्र-पशुपालन-विभागस्य निदेशकः निर्देशितः यत् अनुमोदितायाः धनराशेः आहरणं व्ययश्च अनुमोदित-कार्ययोजनायाः तथा विनिर्दिष्ट-मदानां अनुरूपं योजनायाः निर्धारित-मार्गनिर्देशानां पूर्णपालनपूर्वकं क्रियताम्। व्ययविवरणेन सह उपयोगिता-प्रमाणपत्रं समये शासनाय समर्पणीयमिति अपि निर्देशः प्रदत्तः।
Hindusthan Samachar / Divya Ranjan