मध्य प्रदेशे लघुकृषकेभ्यः महाप्रयत्नः , प्रत्येक विधानसभा क्षेत्रे उद्घटिष्यति 'कृषि यंत्र किराये की दुकान'
भोपालम्, 22 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डा मोहनयादवस्य निर्देशानुसारं कृषकाणां सुविधार्थं प्रत्येकस्मिन् विधानसभाक्षेत्रे न्यूनातिन्यूनम् एका कृषियन्त्रभाटकदुकानम् अनिवार्यरूपेण उद्घाटयितुं सिद्धता प्रचलति। कृषककल्याणवर्षे अस्य
कृषि यंत्र ट्रैक्टर ग्रेडर (फाइल फोटो)


भोपालम्, 22 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डा मोहनयादवस्य निर्देशानुसारं कृषकाणां सुविधार्थं प्रत्येकस्मिन् विधानसभाक्षेत्रे न्यूनातिन्यूनम् एका कृषियन्त्रभाटकदुकानम् अनिवार्यरूपेण उद्घाटयितुं सिद्धता प्रचलति। कृषककल्याणवर्षे अस्य उपक्रमस्य परिणामाः शीघ्रमेव दृश्यन्ते। लघुसीमान्तकृषकाणां स्वक्षेत्राणि सज्जीकर्तुं आधुनिककृषियन्त्राणाम् उपयोगः सुलभः भविष्यति। अधुना एतादृशानि पञ्चसहस्रद्विशत्षष्टि केन्द्राणि सञ्चालितानि सन्ति। अधुना प्रतिवर्षं एकसहस्रषष्टिः कृषियन्त्रभाटक-आपणाः स्थाप्यन्ते।

जनसम्पर्काधिकारी अग्निवीरसोमकुंवरः बुधवासरे उक्तवान् यत् मध्यप्रदेशः अधुना कृषियन्त्रनिर्माणक्षेत्रे शीघ्रगत्या आत्मनिर्भरः भवति। विदिशाजनपदेन आदर्शमुदाहरणं प्रस्तुत्य उच्चगुणवत्तायुक्तानां कृषियन्त्राणां निर्माणम् आरब्धम्। ग्रेडर लेवलर हाइड्रालिक ट्रॉली कल्टीवेटर प्लाउ इत्यादयः उपकरणाः जनपदे एव निर्मीयन्ते। अत्र प्रायः शतपञ्चाशत् कृषिउपकरणनिर्माणैककानि सन्ति। अत्र निर्मितानां कृषियन्त्राणां मागः अन्येषु राज्येषु विदेशेषु च वर्धते। मेडागास्कर नाइजीरिया सूडान यूगाण्डा घाना अलजीरिया ग्वाटेमाला भूटान नेपाल बाङ्गलादेशेषु अत्र निर्मितानि उपकरणानि प्रेष्यन्ते। लघुकृषकाः न्यूनतमसेवाशुल्केन अत्याधुनिककृषियन्त्रसेवाः प्राप्नुवन्ति। युवा उद्यमिनः अपि अस्मिन् क्षेत्रे अग्रे गन्तुं प्रोत्साह्यन्ते।

उषा एग्रो इत्यस्य मानसगुप्तः कथयति यत् वयं कृषिकर्मणि उपयोगिनः यन्त्राणि उपकरणानि च निर्मिमः यथा लोडर डिलोडर कल्टीवेटर इत्यादयः। एतानि सर्वाणि उपकरणानि कृषकाणां कृते अत्यन्तोपयोगिनि सन्ति। सः अग्रे उक्तवान् यत् अस्य कार्यस्य आरम्भः तस्य पित्रा वर्षे एकोनविंशतिशतत्रिनवतितमे कृतः। आरम्भे लघुप्रमाणेन कार्यम् आरब्धम्। अनन्तरं शनैः शनैः तस्य विस्तारः कृतः। अधुना तु अस्माकं उपकरणानि विदेशेष्वपि प्रेष्यन्ते।

सः अवदत् यत् अस्माकं उत्पादानां अधिकांशः स्थानीयविपण्यामेव विक्रीयते किन्तु वयं देशस्य अन्येषु राज्येषु विदेशेषु च अपि आपूर्तिं कुर्मः। अद्य अस्माभिः निर्मितानि यन्त्राणि उपकरणानि च दशाधिकेषु देशेषु प्राप्नुवन्ति। तेषु नाइजीरिया सूडान केन्या यूगाण्डा भूटान नेपाल बाङ्गलादेशः घाना अल्जीरिया संयुक्तअरबअमीरात इत्यादयः देशाः समाविष्टाः सन्ति। अस्माकं व्यापारस्य द्वितीयांशद्वयं देशस्य अन्तरे एव भवति एकतृतीयांशः व्यापारः विदेशेषु भवति। सम्पूर्णवर्षे प्रायः चत्वारि कोटिरूप्यकाणां व्यापारः भवति।

शासनस्य साहाय्यसम्बन्धे सः अवदत् यत् अस्मभ्यं अस्मिन् कार्ये मोहनयादवसर्वकारात् महान् सहयोगः प्राप्यते। उत्पादनात् आरभ्य व्यापारस्य विस्तारपर्यन्तं सर्वकारस्य नीतयः अस्माकं कृते अत्यन्तसहायकाः सिद्धाः। स्वोत्पादानां विदेशपर्यन्तं प्रेषणे अपि अस्मभ्यं शासकीयसाहाय्यं प्राप्यते। सर्वकारस्य उपक्रमेण अहं जी ट्वेन्टी सम्मेलनम् अपि उपगतवान् तस्य व्ययस्य प्रायः पञ्चसप्ततिप्रतिशतं सर्वकारेण वहितम्।

एवमेव सञ्जय उद्योगस्य विष्णुशर्मा ट्रैक्टरसम्बद्धानि उपकरणानि निर्माति यथा कल्टीवेटर प्लाउ इत्यादीनि। एतानि उपकरणानि कृषकाणां कृते अत्यन्तोपयोगिनि सन्ति। ट्रैक्टरयानस्य साहाय्येन कृषकाः स्वक्षेत्राणि सुकरतया सज्जीकुर्वन्ति। तत्र आवश्यकानि सर्वाणि उपकरणानि वयं निर्मिमः। उत्पादानाम् आपूर्तिसम्बन्धे सः अवदत् यत् मुख्यतया विदिशाजनपदे तस्य समीपवर्तिषु जनपदेषु च आपूर्तिः भवति। अन्येषु राज्येष्वपि अस्माकं उत्पादाः प्राप्नुवन्ति। अस्माकं वार्षिकव्यापारः प्रायः पञ्चाशल्लक्षरूप्यकाणां भवति।

---------------

Hindusthan Samachar / Dheeraj Maithani