Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २२ जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः भजनलालशर्मणः मार्गदर्शनेन खाद्य-नागरिक-आपूर्ति-विभागेन सामाजिकन्यायस्य पारदर्शीतायाश्च साकारीकरणस्य दिशि अभूतपूर्वा उपलब्धिः अभिलेखिता। खाद्य-नागरिक-आपूर्तिमन्त्री सुमितगोदारः अवदत् यत् प्रदेशे १ कोटिः ५६ सहस्रं ५११ नूतनानां आवश्यकतायुक्तानां जनानां कृते खाद्यसुरक्षा सुनिश्चिता अभवत्। मुख्यमन्त्रिणः अभिनवप्रयत्नरूपेण प्रारब्धेन ‘गिव अप’ अभियानेन अस्मिन् महती भूमिका निर्वुढा। प्रायः ९३ लक्षं समर्थजनाः स्वेच्छया निर्धनानां हिताय खाद्यसुरक्षायाः लाभम् अत्यजन्।
खाद्य-नागरिक-आपूर्तिमन्त्री अवदत् यत् मुख्यमन्त्रिणः मार्गदर्शने राज्यसर्वकारेण एतत् सुनिश्चितं कृतम् यत् प्रदेशस्य किमपि पात्रं कुटुम्बं खाद्यसुरक्षायाः अधिकारात् वञ्चितं न भवेत्। प्रदेशे जनसङ्ख्यानुपातेन राष्ट्रीय-खाद्य-सुरक्षा-अधिनियमस्य अन्तर्गतं प्रायः ४.४६ कोटिः लाभार्थिनां सीमा निर्धारिता अस्ति। अस्याः सीमायाः पूर्णतां प्राप्तायां नूतनाः व्यक्तयः योजनायाः लाभं प्राप्नुयुः न शक्नुवन्ति स्म। अतः मुख्यमन्त्रिणः निर्देशानुसारं १ नवम्बरमासे २०२४ तमे दिने ‘गिव अप’ अभियानम् आरब्धम्, येन समर्थजनाः स्वेच्छया खाद्यसुरक्षायाः लाभं परित्यक्तुं प्रेरिताः।
प्रायः त्रिमासानन्तरं २६ जनवरीमासे २०२५ तमे दिने खाद्यसुरक्षा-पटलं पुनः उद्घाटितम्, येन वञ्चिताः जनाः योजनायां सम्मिलितुं शक्नुयुः। पटलस्य उद्घाटनानन्तरं ८७ लक्षं ६० सहस्रं ८४७ जनाः खाद्यसुरक्षा-योजनायां समावेशिताः। अस्मात् पूर्वमपि वर्तमान-सर्वकारस्य कार्यकाले १२ लक्षं ९५ सहस्रं ६६४ जनाः योजनायां योजिताः आसन्।
गोदारः अवदत् यत् एषा प्रदेशस्य इतिहासे सामाजिकसुरक्षायाः महत्तमासु उपलब्धिषु अन्यतमा अस्ति, या ‘गिव अप’ अभियानस्य कारणेन सम्भविता। अस्मिन् अभियाने ९३ लक्षं ४८ सहस्रं ५९६ समर्थजनाः स्वेच्छया खाद्यसुरक्षायाः लाभं परित्यक्तवन्तः। सः अवदत् यत् अस्मात् पूर्वं केन्द्रसर्वकारेण उज्ज्वला-योजनायाः अन्तर्गतं सञ्चालिते ‘गिव अप’ अभियाने १ कोटिः १६ लक्षं जनाः स्वेच्छया अनुदानं परित्यक्तवन्तः। तस्यैव आदर्शस्य अनुसरणेन मुख्यमन्त्रिणः नेतृत्वे राजस्थाने सञ्चालितम् इदं अभियानं प्रदेशवासिभ्यः नूतनं सम्बलम् अयच्छत्।
सः अवदत् यत् नूतनसमावेशिताः लाभार्थिनः प्रधानमन्त्री-गरीब-कल्याण-योजनायाः अन्तर्गतं प्रतिव्यक्तिं ५ किलोग्राम-गोधूमम् प्राप्नुवन्ति। तदतिरिक्तं मुख्यमन्त्री-रसोई-गैस-अनुदान-योजना, मुख्यमन्त्री-आयुष्मान-दुर्घटना-बीमा-योजना, तथा मुख्यमन्त्री-आयुष्मान-आरोग्य-योजना इत्यादीनां योजनानामपि लाभं लभन्ते।
सः अवदत् यत् मुख्यमन्त्रिणः भजनलाल-शर्मणः कुशलनेतृत्वे एषा उपलब्धिः ‘सशक्त-राजस्थानम्, समृद्ध-राजस्थानम्’ इति सङ्कल्पस्य साकारीकरणस्य दिशि ऐतिहासिकं पदक्षेपम् अस्ति। खाद्य-नागरिक-आपूर्तिमन्त्री सुमितगोदारः बुधवासरे मुख्यमन्त्रिणा सह मिलित्वा ‘गिव अप’ अभियानस्य माध्यमेन १ कोटिशः जनानां खाद्यसुरक्षां सुनिश्चितां कर्तुं तान् प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् मुख्यमन्त्रिणः प्रेरणया प्रारब्धम् इदं ‘गिव अप’ अभियानं निर्धनजनानां कृते वस्तुतः वरदानम् इव सिद्धम्।
Hindusthan Samachar / Divya Ranjan