Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशे नियमित-टीकाकरण-कार्यक्रमं अधिकं प्रभावकरं कर्तुं तथा टीकासु जनानां विश्वासं सुदृढीकर्तुं बुधवासरे राष्ट्रिय-स्वास्थ्य-अभियानस्य उत्तरप्रदेश-राज्य-कार्यक्रम-प्रबन्धन-एककस्य सभागारे ‘उत्तरप्रदेशे टीकेषु विश्वास-सुदृढीकरणम्’ इति विषयिण्या: राज्य-स्तरीय-प्राविधिक-परामर्श-सभायाः आयोजनम् अभवत्।
एषा सभा राष्ट्रीय-स्वास्थ्य-अभियानस्य उत्तरप्रदेशस्य सहयोगेन डॉ. राममनोहर-लोहिया-आयुर्विज्ञान-संस्थानस्य लखनऊनगरस्य तत्त्वावधाने आयोजिता, यस्यां वरिष्ठ-अधिकारिणः, चिकित्सा-विशेषज्ञाः, उत्तरप्रदेशस्य विभिन्न-जनपदानां राजकीय-चिकित्सा-महा-विद्यालयानां तथा अखिल-भारतीय-आयुर्विज्ञान-संस्थानस्य रायबरेली-स्थितस्य अध्यापकाः, राष्ट्रिय-अन्ताराष्ट्रिय-सहयोगी-संस्थानां प्रति-निधयश्च सहभागिनः अभवन्।
सभां सम्बोधयन्ती राष्ट्रीय-स्वास्थ्य-अभियानस्य उत्तरप्रदेशस्य अभियान-निदेशिका डॉ. पिङ्की-जोवल: अवदत् यत् प्रदेशे पूर्ण-टीकाकरण-व्याप्तेः विवरणेषु महत्त्वपूर्णा वृद्धिः अभवत्। १२–२३ मास-वयस्कानां बालकानां पूर्ण-टीकाकरण-व्याप्तिः अधुना ८१.४ प्रतिशतम् उपगता, यस्मिन् ११.५ प्रतिशताङ्कानां वृद्धिः अभिलेखिता अस्ति। डॉ. जोवल: अवदत् यत् अधुना समयः आगतः यत् उपचारेण सह रोग-निवारणेऽपि विशेष-ध्यानं दीयेत, येन उपचारे भूयमानं व्ययं न्यूनीकर्तुं शक्येत।
तया उक्तं यत् लाभान्वितेभ्यः प्रामाणिक-सूचनानां सम्प्रेषणम् अत्यावश्यकम्, येन टीकाकरणविषये कापि आशङ्का वा भ्रान्तिर्वा न भवेत्। सा चिकित्सा-महाविद्यालयान्, स्वास्थ्य-विभागं तथा सहयोगी-संस्थानानि समन्वित-प्रयत्नान् कर्तुम् आहूतवती। तया उक्तं यत् यदि अग्रपङ्क्तेः स्वास्थ्य-कर्मिणः विविध-स्वास्थ्य-कार्यक्रमाणां सूचनाः एकीकृत-रूपेण समुदायं प्रति प्रापयेयुः, तर्हि तस्य प्रभावः अधिकः व्यापकः स्थायी च भविष्यति।
अस्मात् पूर्वं सभायाः उद्घाटनं कुर्वन् लोहिया-संस्थानस्य निदेशकः डॉ. सी.एम. सिंहः अवदत् यत् प्रदेशे शीघ्रं विकसितमाना: चिकित्सा-महाविद्यालया: टीकासु विश्वास-वर्धने महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति। तेन उक्तं यत् चिकित्सा-संस्थानानां, स्वास्थ्य-विभागस्य तथा सहयोगी-सङ्गठनानां संयुक्त-प्रयत्नैः टीकाकरणसम्बद्धानां मिथ्या-सूचनानां प्रभावः प्रभावी-रीत्या निराकर्तुं शक्यते।
सभायां लोहिया-संस्थानस्य, केजीएमयू, एम्स-रायबरेली, एएमयू, एलएलआरएम-चिकित्सा-महाविद्यालयस्य मेरठनगरस्य, एसएन-चिकित्सा-महाविद्यालयस्य आग्रानगरस्य, जीएसवीएम-चिकित्सा-महाविद्यालयस्य कानपुरनगरस्य, आई-सीएमआर-आरएमआरसी-गोरखपुरस्य तथा अन्येषां विविध-चिकित्सा-संस्थानानां प्रतिनिधयः सहभागिनः अभवन्।
Hindusthan Samachar / Divya Ranjan