राष्ट्रपति मुर्मुः स्कोप्जेनगरे महात्मा गांधिनः प्रतिमायाः अनावरणं कृत्वा उक्तवान्, बापूसंदेशः अद्य अधिकः प्रासंगिकः
स्कोप्जे, 22 जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू बुधवासरे उत्तरमासेडोनियादेशस्य राजधानी स्कोप्जे नगरे महात्मागान्धेः प्रतिमायाः अनावरणं कृत्वा उक्तवती यत् संघर्षैः असहिष्णुतया विभाजनेन च पीड्यमानायां अधुनातनविश्वस्थितौ महात्मागान्धिनः सं
राष्ट्रपति द्रौपदी मुर्मु ने बुधवार को उत्तर मैसेडोनिया की राजधानी स्कोप्जे में महात्मा गांधी की प्रतिमा का अनावरण करते हुए


स्कोप्जे, 22 जुलाईमासः (हि.स.)।

राष्ट्रपतिः द्रौपदीमुर्मू बुधवासरे उत्तरमासेडोनियादेशस्य राजधानी स्कोप्जे नगरे महात्मागान्धेः प्रतिमायाः अनावरणं कृत्वा उक्तवती यत् संघर्षैः असहिष्णुतया विभाजनेन च पीड्यमानायां अधुनातनविश्वस्थितौ महात्मागान्धिनः संवादस्य कारुण्यस्य शान्तिपूर्णसहअस्तित्वस्य च सन्देशः अद्य पूर्वस्मात् अपि अधिकः प्रासङ्गिकः अस्ति।

उत्तरमासेडोनियादेशस्य राष्ट्रपतिना गोर्डाना सिलजानोव्स्का दावकोवा सह स्कोप्जे सिटी म्यूजियम इति स्थले आयोजितं समारोहम् सम्बोधयन्ती राष्ट्रपतिः मुर्मू उक्तवती यत् महात्मागान्धी भारतस्य आसीत् किन्तु तस्य सन्देशः समग्रमानवतायै अस्ति। सा उक्तवती यत् महात्मागान्धिनः जीवनम् अस्य प्रमाणम् अस्ति यत् सत्यम् अहिंसा च दुर्बलतायाः प्रतीकौ न स्तः अपितु न्यायस्य गौरवस्य स्वतन्त्रतायाः च सुनिश्चितीकरणाय शक्तिशालिनौ साधनौ स्तः।

सा उक्तवती यत् महात्मागान्धेः एषा प्रतिमा जनान् विशेषतः युवान् द्वेषस्य परित्यागं कर्तुं मतभेदानां शान्तिपूर्णसमाधानं अन्वेष्टुं साहसेन संवेदनशीलतया च समाजसेवां कर्तुं प्रेरयिष्यति। राष्ट्रपतिः उक्तवती यत् एषा प्रतिमा भारतस्य उत्तरमासेडोनियादेशस्य च मैत्र्याः तथा शान्तेः सहिष्णुतायाः मानवतायाः च प्रति उभयदेशयोः समानप्रतिबद्धतायाः स्थायीप्रतीकं भविष्यति।

अस्मिन् अवसरे स्कोप्जे नगरस्य महापौरः ओरसे जॉर्जिएव्स्की केन्द्रीय उपभोक्तृकार्यमन्त्रालयस्य खाद्यसार्वजनिकवितरणविभागस्य राज्यमन्त्री निमुबेन जयन्तीभाई बांभाणिया सांसदौ दिनेशशर्मा विजयबघेलश्च अपि उपस्थितौ आस्ताम्।

अस्मात् पूर्वं राष्ट्रपतिः मुर्मू उत्तरमासेडोनियादेशस्य राष्ट्रपतिना सह स्कोप्जे स्थितं मदर टेरेसा स्मारकं अपि अवलोकितवती। मदर टेरेसायाः जन्म स्कोप्जे नगरे अभवत् तथा वर्षं १९२८ पर्यन्तं तस्याः बाल्यकालः तत्रैव व्यतीतः। अनन्तरं सा आयर्लैण्डदेशमार्गेण भारतम् आगता। भारतसर्वकारेण तस्यै वर्षे १९८० तमे मानवीयसेवायै निःस्वार्थयोगदानाय च देशस्य सर्वोच्चनागरिकसम्मानः भारतरत्न इति सम्मानः प्रदत्तः।

राष्ट्रपतिः मुर्मू स्वस्य त्रिदेशीययात्रायाः अन्तिमचरणे गुरुवासरे रोमानियादेशस्य राजधानी बुखारेस्ट नगराय प्रस्थिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani