जलगामिनीरोधीस्वदेशी युद्धपोतं ‘मालवन’इत्येतद् भारतीय नौसेनायाः गणे सम्मिलितम्
- नौसेनायाः समुद्री सुरक्षा पनडुब्बी रोधी क्षमता च दृढीभविष्यति नवदिल्ली, 22 जुलाईमासः (हि.स.)। भारतीयनौसेनया कर्नाटकस्य कारवारनौसैनिकाधारे आईएनएस मालवन इति युद्धपोतः स्वस्य गणे समावेशितः। माहे श्रेण्याः अयं द्वितीयः पनडुब्बीरोधीयुद्धपोतः कोचीन श
पनडुब्बी रोधी स्वदेशी युद्धपोत ‘मालवन’ (फाइल फोटो)


- नौसेनायाः समुद्री सुरक्षा पनडुब्बी रोधी क्षमता च दृढीभविष्यति

नवदिल्ली, 22 जुलाईमासः (हि.स.)। भारतीयनौसेनया कर्नाटकस्य कारवारनौसैनिकाधारे आईएनएस मालवन इति युद्धपोतः स्वस्य गणे समावेशितः। माहे श्रेण्याः अयं द्वितीयः पनडुब्बीरोधीयुद्धपोतः कोचीन शिपयार्ड लिमिटेड इत्यत्र आत्मनिर्भरभारताभियानस्य अन्तर्गतं अशीतिप्रतिशताधिकस्वदेशीयसामग्रीणां उपयोगेन निर्मितः। अनेन नौसेनायाः सामुद्रिकसुरक्षा तथा पनडुब्बीरोधिक्षमता अधिकं सुदृढा भविष्यति। अयं आत्मनिर्भरभारताभियानस्य अन्तर्गतं युद्धपोतनिर्माणे देशस्य वर्धमानसामर्थ्यस्य परिचायकः अस्ति।

अयं विशेषतः उथलेषु तटीयक्षेत्रेषु शत्रुपक्षस्य पनडुब्बीनां जलान्तर्गतमानवरहितयानानां समुद्रीघुस्पैठिनां च अन्वेषणाय तेषां विनाशाय च विनिर्मितः अस्ति। अस्मिन् युद्धपोते उन्नतसोनारप्रणाली लघुभारयुक्तटारपीडः पनडुब्बीरोधीरॉकेटप्रक्षेपकाः च संस्थापिताः सन्ति। प्रायः अशीतिमीटरदीर्घः एकादशशतटनविस्थापनक्षमः च अयं पोतः वाटरजेटप्रणोदनप्रणाल्या युक्तः अस्ति। एषा प्रणाली उथलेषु जलेष्वपि अस्य उच्चगतिशीलतां तथा पञ्चविंशतिनॉटपरिमितां अधिकतमगतिं प्रायः षट्चत्वारिंशत्किलोमीटरप्रतिघण्टावेगं च प्रददाति। अस्य नाम महाराष्ट्रस्य ऐतिहासिकतटीयनगरस्य मालवन इत्यस्य आधारेण स्थापितम् अस्ति। अस्य प्रतीकचिह्ने छत्रपतिशिवाजीमहाराजस्य प्रेरणया वाघनख इति चिह्नम् अपि समाविष्टम् अस्ति।

भारतीयनौसेनायाः सामर्थ्यं नूतनां धारां ददाति आईएनएस मालवन इति युद्धपोतः स्वस्य अशीतिप्रतिशतस्वदेशीयप्रौद्योगिक्या उन्नतवाटरजेटप्रणोदनप्रणाल्या घातकटारपीडक्षमतया च विशेषरूपेण चर्चायाम् अस्ति। समुद्रे शत्रूणां निरीक्षणे सूक्ष्मप्रहारे च समर्थः अयं युद्धपोतः भारतीयरक्षाक्षेत्रस्य आत्मनिर्भरत्वस्य महत्त्वपूर्णम् उदाहरणम् मन्यते। अस्य प्रबलमारकक्षमत्वात् अस्य समुद्रस्य साइलेंट किलर इति नाम अपि प्रचलितम् अस्ति। माहेश्रेण्याः एते युद्धपोताः तटीयेषु उथलेषु च सामुद्रिकक्षेत्रेषु प्रभाविकार्यसञ्चालनाय निर्मिताः सन्ति। अयं अत्याधुनिकयुद्धपोतः उथलेषु सामुद्रिकप्रदेशेषु शत्रुपक्षस्य पनडुब्बीनाम् अन्वेषणाय तासां अनुधावनाय आवश्यकतायां तासां विनाशाय च विशेषतः सिद्धीकृतः अस्ति।

अस्मिन् समारोहे वायुसेनाप्रमुखः एयरचीफमार्शल एपी सिंह मुख्यातिथिरूपेण उपस्थितः आसीत्। अस्मिन् अवसरे पश्चिमनौसेनाकमानस्य प्रमुखः वाइसएडमिरल संजय वात्सायन कोचीन शिपयार्ड लिमिटेड संस्थायाः प्रतिनिधयः नौसेनायाः वरिष्ठाधिकारीणः अन्ये अतिथयः च उपस्थिताः आसन्।---------------------------------

Hindusthan Samachar / Dheeraj Maithani