Enter your Email Address to subscribe to our newsletters

फर्रुखाबादनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबाद-जनपदे आलूकानां उत्तम-विपणनस्य, गुणवत्तावर्धनस्य तथा निर्यातस्य प्रोत्साहनार्थं जनपदाधिकारिणः डॉ. अङ्कुर-लाठरस्य अध्यक्षतायां फतेहगढस्थिते समाहर्तृ-सभागारे कृषि-प्रसंस्कृत-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणस्य, वाराणसी-कार्यालयस्य सहयोगेन बुधवासरे महत्त्वपूर्णा सभा आयोजिता। अस्यां सभायाम् एपीडा-संस्थायाः व्यापार-विकास-प्रबन्धकः सहभागित्वेन कृष्युत्पादानां निर्यातस्य सम्भावनाः तथा आवश्यक-तकनीकी-व्यवस्थाः विषये विस्तृतां सूचनाम् अयच्छत्।
जनपदाधिकारी जनपदस्य कृष्युत्पादान् राष्ट्रीय-अन्ताराष्ट्रिय-विपणीषु स्थापयितुं सर्वाः आवश्यक-व्यवस्थाः समयबद्धरूपेण सुनिश्चिताः स्युरिति निर्देशान् अददात्। सः ई-जी.एम. पटले जनपदस्य दत्तांशस्य शीघ्रम् आरोपणं, गुणवत्तायुक्त-बीजानां उपलब्धतां तथा निर्यातयोग्य-उत्तमगुणवत्तायुक्त-आलूकानाम् उत्पादनस्य प्रोत्साहनं विशेषतया बलं दत्तवान्।
जनपदाधिकारी फर्रुखाबादे आलू-आधारित-कृषक-उत्पादक-सङ्घस्य गठनस्य, आधुनिक-श्रेणीकरण-पैकेजिङ्ग-सॉर्टिङ्ग-व्यवस्थायाः विकासस्य तथा कृषकेभ्यः व्यापारिभ्यश्च तकनीकी-सहायतायाः आवश्यकतां प्रतिपादितवान्। सः उक्तवान् यत् विशेषः एकः एफ.पी.ओ. केवलम् आलूकोत्पादनं, गुणवत्तावर्धनं तथा विपणनं प्रति कार्यं कुर्यात्, येन कृषकाः उत्तमं मूल्यं प्राप्नुयुः। तदतिरिक्तं जनपदे आम्र-रस-प्रसंस्करण-केन्द्रस्य स्थापनस्य सम्भावनाः अपि चर्चिताः।
सभायां निवेदितं यत् जनपदे प्रायः ४३,४०० हेक्टेयर क्षेत्रे आलूकस्य तथा १६.७५ हेक्टेयर क्षेत्रे आम्रस्य कृषिः क्रियते। प्रतिवर्षं प्रायः १५.५३ लक्ष-मीट्रिक-टन आलूकस्य उत्पादनं भवति, अतः फर्रुखाबादनगरम् प्रदेशस्य प्रमुखेषु आलू-उत्पादक-जनपदेषु अन्यतमः अस्ति। एपीडा-संस्थया कृषिनिर्यातस्य प्रोत्साहनार्थं पञ्जीकरणं, तकनीकी-मार्गदर्शनम्, विपणी-विश्लेषणम्, प्रशिक्षणम् तथा विपणनसम्बद्ध-सुविधाः प्रदीयन्ते।
सभायां ज्ञापितं यत् निर्यातार्थं ४५ तः ८० मिलीमीटर परिमाणयुक्ताः, स्वच्छाः, मृदुलाः, निर्दोषाः, अच्छिन्नाश्च आलकानि अधिकतया अपेक्षितानि भवन्ति। निर्यातकर्तृभ्यः परिवहन-व्यये २५ प्रतिशत पर्यन्तम् अनुदानस्य व्यवस्था अपि अस्ति, येन निर्यातगतिः अधिका भवितुम् अर्हति।
आलू-विकास-अधिकारी कृषकेभ्यः वैज्ञानिक-कृषेः अनुसरणस्य परामर्शम् अहच्छत्। सः उक्तवान् यत् रासायनिक-उर्वरकाणां कीटनाशकानां च सन्तुलितं प्रयोगं क्रियताम् तथा वर्मी-कम्पोस्ट, गोमय-उर्वरकम्, ढैञ्चा-हरित-उर्वरकं च अधिकतया उपयुज्यन्ताम्। स्प्रिङ्क्लर-सिञ्चन-प्रणाल्याः प्रयोगेण जलसंरक्षणेन सह उत्पादनस्य गुणवत्तायाश्च उल्लेखनीयः सुधारः भवतीति सः अवदत्। जनपदाधिकारी उपनिदेशक-कृषि-कार्यालयाय कृषकेभ्यः मृदा-परीक्षण-प्रतिवेदनं समये प्रदातुं निर्देशान् अयच्छत्।सभायाम् एतदपि ज्ञापितं यत् फर्रुखाबादस्य आलूकानि सम्प्रति सऊदी-अरबः, नेपालः, ओमान, इण्डोनेशिया, संयुक्त-अरब-अमीरात् तथा श्रीलङ्का इत्यादिषु देशेषु निर्यात्यते। अधुना रूसदेशात् ‘कुफरी बहार’ इति जातीयस्य आलूकस्य याचनाधिका प्राप्ता अस्ति तथा इराकदेशेन अपि भारतात् आलूक-आयातस्य अनुमतिः प्रदत्ता। अतः जनपदस्य कृषकाणां कृते निर्यातस्य सम्भावनाः अधिकतया वर्धिताः सन्ति।
एपीडा-अधिकारिणः अवदन् यत् प्रदेशे एपीडा-अनुमोदितानि षट् पैकिङ्ग-केन्द्राणि सञ्चालितानि सन्ति। वाराणसी-स्थितात् एपीडा-कार्यालयात् कृषकाः निर्यातकर्तारश्च तकनीकी-विपणनसम्बद्धं आवश्यकं सहयोगं प्राप्तुं शक्नुवन्ति। ते जनपदस्य दत्तांशस्य पटले नियमितम् अद्यतनीकरणं तथा तकनीकी-दलस्य अधिकसक्रियकरणं प्रति अपि बलम् अददुः।
अस्यां सभायां मुख्य-विकास-अधिकारी, कृषि-, उद्यान- तथा अन्येषां सम्बन्धित-विभागानां जनपद-स्तरीय-अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan