Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमः, 22 जुलाईमासः (हि.स.)।पश्चिमसिंहभूमजिलायाः चाईबासानगरे स्थितस्य श्रीश्रीहरिबोलसरस्वतीदुर्गामन्दिरस्य मौसीबाडी नाम्नि स्थले एतेषु दिवसेषु महाप्रभोः श्रीजगन्नाथस्वामिनः ज्येष्ठभ्रातुः भगवान् बलभद्रस्य भगिन्याः देवीसुभद्रायाः च दर्शनार्थं श्रद्धालूनां महान् जनप्रवाहः समुपस्थितः अस्ति।
मङ्गलवासरे निरन्तरप्रवर्तमानया प्रबलवृष्ट्या अन्धकारपूर्णया रात्र्या प्रतिकूलवातावरणेन च अपि भक्तानां श्रद्धा न न्यूनीकृता। हस्तेषु छत्राणि धारयन्तः महिलाः पुरुषाः वृद्धाः बालकाः च दीर्घकालं यावत् दीर्घपङ्क्तिषु स्थित्वा स्वीयाराध्यस्य दर्शनस्य प्रतीक्षां कृतवन्तः।
श्रद्धालूनां मुखेषु न काचित् क्लान्तिः आसीत् न वा वर्षायाः चिन्ता। अपितु महाप्रभोः दर्शनस्य उत्कटाभिलाषा एव तेषां महान् बलम् अभवत्।
रथयात्रायाः अनन्तरं परम्परानुसारं महाप्रभुः अष्टदिनपर्यन्तं मौसीबाड्यां विराजते। अस्मिन् अवधौ प्रतिदिनं सहस्रशः श्रद्धालवः दर्शनं कृत्वा महाप्रभोः महाप्रसादं ग्रहणार्थम् आगच्छन्ति।
मन्दिरपरिसरे प्रातःकालात् आरभ्य रात्रेः विलम्बितसमयं यावत् भजनकीर्तनम् आरार्तिकम् जयजगन्नाथ इति जयघोषः च सम्पूर्णं वातावरणं भक्तिमयं करोति।
मङ्गलवासरस्य रात्रौ अपि मूसलधारावृष्टेः अपि श्रद्धालूनाम् उत्साहः दर्शनीयः आसीत्। वर्षानिवृत्तेः प्रतीक्षां न कृत्वा भक्ताः प्रत्यक्षं मन्दिरम् आगत्य धैर्यपूर्वकं स्वक्रमस्य प्रतीक्षां कृत्वा दर्शनं कृतवन्तः।
मौसीबाड्यां प्रतिदिनं मध्यान्हभोगेन सह रात्रौ छप्पनभोगमहाप्रसादस्य वितरणं क्रियते। मङ्गलवासरे रात्रौ अष्टवादनात् दशवादनपर्यन्तं सम्पन्ने महाप्रसादवितरणे सहस्रशः श्रद्धालवः सहभागिनः अभवन् तथा महाप्रभोः प्रसादं गृहीत्वा स्वान् धन्यान् अमन्यन्त।
मन्दिरस्य मुख्यपूजारी सञ्जयमिश्रः अवदत् यत् श्रीश्रीहरिबोलसरस्वतीदुर्गापूजासमितिः प्रायः शतवर्षेभ्यः एतस्याः दिव्यपरम्परायाः निर्वहनं करोति। महाप्रभोः कृपया प्रतिवर्षं श्रद्धालूनां संख्या वर्धते तथा दूरस्थप्रदेशेभ्यः अपि जनाः मौसीबाडीम् आगत्य दर्शनस्य महाप्रसादस्य च लाभं प्राप्नुवन्ति।
समितेः कोषाध्यक्षः तरुणकुमारदरिपा अवदत् यत् एषः आयोजनः सम्पूर्णतया महाप्रभोः श्रीजगन्नाथस्वामिनः असीमकृपायाः परिणामः अस्ति। तेन उक्तं यत् प्रबलवृष्टेः अन्धकारपूर्णरात्रेः कठिनपरिस्थितीनां च उपस्थितौ अपि भक्तानां घण्टानां यावत् पङ्क्तिषु स्थितिः एतस्य जीवितप्रमाणम् अस्ति यत् महाप्रभोः प्रति तेषां श्रद्धा अखण्डा अद्भुता च अस्ति। सः सर्वेषां श्रद्धालूनां सुखशान्तिसमृद्धीनां कामनां कृत्वा उक्तवान् यत् महाप्रभोः कृपा सदा स्वभक्तेषु वर्तताम्।
सम्पूर्णस्य आयोजनस्य सफलतायै श्रीश्रीहरिबोलसरस्वतीदुर्गापूजासमितेः वरिष्ठकनिष्ठसदस्यैः सेवाभावेन स्वस्वदायित्वानि निर्वाहितानि। श्रद्धालूनां कृते दर्शनस्य महाप्रसादवितरणस्य च समुचिता व्यवस्था कृता।
वृष्टेः मध्ये अपि मन्दिरपरिसरे समुपस्थितः श्रद्धालूनां विशालजनसमूहः पुनरेकवारं सिद्धीकृतवान् यत् सत्यश्रद्धायाः पुरतः ऋतोः कापि बाधा महत्त्वं न धारयति।
---------------
Hindusthan Samachar / Dheeraj Maithani