चर्चामवरोद्धुम् अनुबंधस्थापनं सम्यक्न , सर्वकारः कस्माच्चित्प्रकरणात् धावति न': किरेन रिजिजूः
नवदिल्ली, 22 जुलाईमासः (हि.स.)। संसदीयकार्य मन्त्री किरेन रिजिजूः संसदि प्रवर्तमानम् अवरोधम् अधिकृत्य विपक्षम् आलोचयन् उक्तवान् यत् विपक्षेण स्वमतं चर्चायाः समये एव प्रस्तोतव्यम्, किन्तु चर्चां निरोद्धुं शर्तानां आरोपणं लोकतान्त्रिकपरम्पराणां विर
संसदीय कार्यमंत्री किरेन रिजीजू


नवदिल्ली, 22 जुलाईमासः (हि.स.)।

संसदीयकार्य मन्त्री किरेन रिजिजूः संसदि प्रवर्तमानम् अवरोधम् अधिकृत्य विपक्षम् आलोचयन् उक्तवान् यत् विपक्षेण स्वमतं चर्चायाः समये एव प्रस्तोतव्यम्, किन्तु चर्चां निरोद्धुं शर्तानां आरोपणं लोकतान्त्रिकपरम्पराणां विरुद्धम् अस्ति। संसदि पत्रकारैः सह वार्तालापं कुर्वन् किरेन रिजिजू उक्तवान् यत् यदि सदने चर्चा भवति तर्हि प्रत्येकसंसद्सदस्यस्य स्वमतं प्रस्तोतुं पूर्णः अधिकारः अस्ति। कांग्रेस दलः भवतु अथवा अखिलेश यादवः, सर्वेऽपि स्वविचारान् मुक्ततया प्रस्तुतुं शक्नुवन्ति। तेन उक्तं यत् चर्चां निरोद्धुं बहानानां निर्माणं समुचितं नास्ति।

तेन उक्तं यत् सरकारः कस्यापि विषयस्य सम्मुखीकरणात् न पलायते। लोकतन्त्रे सर्वकारस्य दायित्वम् अस्ति यत् सा जनतायै स्वकार्यकलापानां सूचना प्रदद्यात् तथा सदने प्रत्येकस्मिन् विषये चर्चायै सर्वदा सज्जा भवेत्।

संसदीयकार्य मन्त्री विपक्षम् आह्वयन् उक्तवान् यत् तादृशः व्यवहारः न स्वीक्रियताम् येन सदने चर्चैव न भवेत्। तेन उक्तं यत् संसदः कार्यवाही निर्धारितनियमानुसारम् एव प्रवर्तते। प्रथमं चर्चा न भवितुम् अनुमन्यते, ततः पश्चात् वक्तुं अवसरः न प्राप्त इति कथ्यते, एतत् समुचितं नास्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani