Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन-संस्कृति-मन्त्री जयवीरसिंहः बुधवासरे पर्यटन-भवनस्य सभागारे रुचि-चौहान-विरचितस्य ‘मन के मौसम’ इति काव्यसङ्ग्रहस्य विमोचनं कृत्वा लेखिकायै हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवान्। सः अवदत् यत् अस्मिन् काव्यसङ्ग्रहे नारीमनसः कोमलाः भावनाः कवितानां माध्यमेन अतीव सुन्दरतया अभिव्यक्ताः सन्ति। एषा पुस्तिका नारीसमाजस्य तथा अर्धजनसङ्ख्यायाः प्रेरणास्रोतः भविष्यति।जयवीरसिंहः अवदत् यत् ‘मन के मौसम’ इति काव्यसङ्ग्रहे नारीहृदयस्य सूक्ष्माः भावनाः, विविधाः अनुभूतयः, मिलनम्, वियोगः, त्रासदी, शोषणम् इत्यादीनां विषयाणां सह अनेके अनस्पृष्टाः पक्षाः अपि सरलशब्दैः सुन्दरतया निरूपिताः सन्ति। लेखिकायाः शब्दचयनम् अपि प्रशंसनीयम् अस्ति। कुत्रचित् भावनाः शब्दैः सह स्वाभाविकतया प्रवहन्ति। एषः तस्याः प्रथमः काव्यसङ्ग्रहः अस्ति। सः आशां व्यक्तवान् यत् तस्याः काव्यसृष्टिः भविष्ये अधिका विस्तृता भविष्यति तथा ‘मन के मौसम’ इत्यस्य अतिरिक्तम् अपि सा समाजे नार्याः सम्बन्धिन्यः विविधाः विडम्बनाः संघर्षांश्च स्वशब्दैः प्रभावकरूपेण चित्रयिष्यति। सः अस्य ग्रन्थस्य लोकप्रियतां जनमानसे व्यापकप्रभावं च कामितवान्।
अस्मिन् अवसरे पूर्वमन्त्री स्वातिसिंहः अवदत् यत् ईश्वरेण नार्यै सृजनशक्तिः प्रदत्ता अस्ति। नार्याः विना अयं संसारः अपूर्णः अस्ति। सा कदाचित् मातृरूपेण, कदाचित् भगिनीरूपेण, कदाचित् पत्नीरूपेण समाजस्य गतिशीलतां धारयति। विख्यातः कविः पङ्कज-प्रसूनः अपि स्वविचारैः लेखिकायाः रुचि-चौहानस्याः उत्साहवर्धनम् अकरोत्। सः अवदत् यत् अस्मिन् काव्यसङ्ग्रहे प्रेम, विरह, संघर्षः तथा कोमलाः भावनाः अत्यन्तं मार्मिकतया अभिव्यक्ताः सन्ति। सः लेखिकायै हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवान्। लेखिकायाः पतिः डी. एस. चौहानः कार्यक्रमस्य सफलं सञ्चालनम् अकरोत्।
Hindusthan Samachar / Divya Ranjan