Enter your Email Address to subscribe to our newsletters

जाञ्जगीर-चाम्पानगरम्, २२ जुलाईमासः (हि.स.)। महतारी-वन्दन-योजना महिलानां जीवने सकारात्मकं परिवर्तनम् आनयति। योजनायाः अन्तर्गतं प्राप्यमाणां साहाय्य-राशेः सम्यगुपयोगं कृत्वा अनेकाः महिलाः स्वान् लघु-व्यवसायान् वर्धयन्ति तथा आर्थिकदृष्ट्या आत्मनिर्भराः भवन्ति। एतादृशी एव प्रेरणादायिनी कथा एकीकृत-बाल-विकास-परियोजना-बम्हनीडीहस्य चाम्पा-ग्रामीण-क्षेत्रान्तर्गतस्य गुरूनानक-०२ आङ्गनबाडी-केन्द्रस्य निवासिन्याः शकुन्तला-महान्त-इत्यस्या: अस्ति। सा महतारी-वन्दन-योजनया प्राप्तां धनराशिं स्वस्य मेलापक-भाण्डारे निवेश्य अद्य स्वपरिवारस्य आर्थिकस्थितिं सुदृढां कृतवती।
शकुन्तला-महन्त: पूर्वं स्वपरिवारस्य आयं वर्धयितुं लघुं मेलापक-भाण्डारम् अचालयत्। तस्मात् तस्याः आयः अपि सीमितः आसीत् तथा परिवारस्य आवश्यकतानां पूरणं कठिनम् अभवत्। महतारी-वन्दन-योजनायाः अन्तर्गतं प्रतिमासं प्राप्यमाणां १००० रूप्यकाणां साहाय्य-राशिं व्ययितुं निश्चयं न कृत्वा तां स्वव्यवसाये निवेशयितुम् ऐच्छत्। प्रतिमासं प्राप्तया राश्या सा शनैः शनैः स्व-आपणे नूतन-वस्तूनि योजयितुम् आरब्धवती। अस्याः राशेः सदुपयोगेन तस्याः व्यवसायः वर्धितः, ग्राहकाणां संख्या अपि अभिवृद्धिं गता। अद्य तस्याः मेलापक-भाण्डारः परिवारस्य आयस्य दृढः आधारः अभवत्। वर्धितया आयया सा बालकानां शिक्षां, गृहव्ययान् तथा अन्याः आवश्यकताः सुकरतया पूरयति। आर्थिकस्थितेः उन्नत्याः सह तस्याः आत्मविश्वासः अपि पूर्वापेक्षया अधिकः दृढः अभवत्।
शकुन्तला-महन्त: वदति यत् महतारी-वन्दन-योजना तस्यै केवलम् आर्थिक-साहाय्यं न, अपितु आत्मनिर्भरतां प्राप्तुं सशक्तं माध्यमम् अभवत्। तस्याः मते यदि एषा धनराशिः समुचित-दिशि विनियुज्यते, तर्हि लघवोऽपि प्रयासाः महत् परिवर्तनम् आनेतुं शक्नुवन्ति। स्वजीवने समागतस्य अस्य सकारात्मक-परिवर्तनस्य कृते सा मुख्यमन्त्रिणं विष्णुदेव-सायं प्रति कृतज्ञतां व्यक्तवती। सा अवदत् यत् महतारी-वन्दन-योजनया तस्यै सम्मानस्य, आत्मविश्वासस्य तथा उत्तम-भविष्यस्य नूतना आशा प्रदत्ता।
Hindusthan Samachar / Divya Ranjan