मेट्रो-द्वितीय-चरणेन आवागमनस्य उत्तमा संयोजकता भविष्यति - मुख्यमन्त्री भजनलाल-शर्मा
जयपुरनगरम्, २२ जुलाईमासः (हि.स.)। राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा बुधवासरे सीतापुरा-स्थिते मेट्रो-डिपो-स्थले जयपुर-मेट्रो-द्वितीय-चरणस्य विधिवत् भूमिपूजनं शिलापूजनं च अकरोत्। तेन पाइलिङ्ग-रिङ्ग-यन्त्रस्य पूजनं कृत्वा पाइलिङ्ग-कार्यस्य शुभारम्
फेज-2 से मिलेगी आवागमन की बेहतर कनेक्टिविटी:  मुख्यमंत्री भजनलाल शर्मा


फेज-2 से मिलेगी आवागमन की बेहतर कनेक्टिविटी:  मुख्यमंत्री भजनलाल शर्मा


जयपुरनगरम्, २२ जुलाईमासः (हि.स.)। राजस्थानस्य मुख्यमन्त्री भजनलाल-शर्मा बुधवासरे सीतापुरा-स्थिते मेट्रो-डिपो-स्थले जयपुर-मेट्रो-द्वितीय-चरणस्य विधिवत् भूमिपूजनं शिलापूजनं च अकरोत्। तेन पाइलिङ्ग-रिङ्ग-यन्त्रस्य पूजनं कृत्वा पाइलिङ्ग-कार्यस्य शुभारम्भः अपि कृतः। सः प्रायः ४१ किलोमीटर-दीर्घस्य मेट्रो-द्वितीय-चरणस्य प्रतिरूपम् अपि अवलोकितवान्।

ततः परं मुख्यमन्त्री विद्युत्-यानबस्या उपवेश्य मेट्रो-डिपो-स्थलात् मानसरोवर-मेट्रो-स्थानकं प्राप्तवान्। तत्र सः वातायन-कक्षात: यात्रापत्रम् गृहीत्वा लघु-चौपड्-स्थानकपर्यन्तं मेट्रो-यानस्य यात्रा अकरोत्। यात्रायाः समये तेन मेट्रो-चालक-कक्षात् द्वितीय-चरणस्य अन्तर्गतं खासाकोठी-स्थले निर्मीयमाणस्य अन्तरपरिवर्तन-मेट्रो-स्थानकस्य स्थलम् अपि अवलोकितम्। ततः परं सः लघु-चौपड्-मेट्रो-स्थानकं प्राप्त्वा कला-दीर्घायाः अपि अवलोकनम् अकरोत्।

मुख्यमन्त्री माध्यमैः सह वार्तालापे अवदत् यत् जयपुरे मेट्रो-विस्तारः अत्यावश्यकः आसीत्। अतः प्रधानमन्त्रिणः नरेन्द्र-मोदिनः नेतृत्वे द्वि-इञ्जिन-सर्वकारेण जयपुर-नागरिकेभ्यः मेट्रो-द्वितीय-चरणस्य उपहारः प्रदत्तः। प्रधानमन्त्रिणा यस्य कार्यस्य शिलान्यासः क्रियते, तस्य उद्घाटनमपि तेनैव क्रियते। आभासी-शिलान्यासानन्तरं केवलं १८ दिवसेषु एव निर्माण-कार्यस्य आरम्भः अभवत्। शीघ्रमेव नगरवासिनः सुगम-आवागमनार्थं उत्तमां संयोजकतां प्राप्स्यन्ति। एषा मेट्रो जयपुर-नगरस्य जीवनरेखापि भविष्यति। आवश्यकता-अनुसारं तृतीय-चतुर्थ-चरणयोः कार्यमपि प्रारभ्यते इति तेन उक्तम्।

उल्लेखनीयम् अस्ति यत् जयपुर-मेट्रो-द्वितीय-चरणस्य अन्तर्गतं प्रह्लादपुरात् टोडी-मोड्-पर्यन्तम् उत्तर-दक्षिण-मार्गः विकसितः भविष्यति। एषः मार्गः सीतापुरात् आरभ्य वीकेआईए-प्रदेशपर्यन्तं औद्योगिक-आवासीय-क्षेत्राणि संयोजयन् जयपुरस्य जीवनरेखारूपेण कार्यं करिष्यति। अस्य मार्गस्य कुल-व्ययः १३,०३७ कोटि-रूप्यकाणाम् अधिकः अस्ति। एषः मार्गः सीतापुरा-औद्योगिक-क्षेत्रम्, वीकेआईए, जयपुर-विमानस्थानकम्, टोंक-मार्गम्, एसएमएस-चिकित्सालयम्, क्रीडाङ्गणम्, कलेक्ट्रेट्, रेलस्थानकम्, अम्बाबाडी तथा विद्याधर-नगरम् इत्यादीन् प्रमुख-प्रदेशान् निर्बाध-संयोजकतया योजयिष्यति। अस्याः परियोजनायाः अन्तर्गतं विमानस्थानक-प्रदेशे भूमिगत-स्थानकमपि निर्मास्यते, येन एकीकृतं निरन्तरं च मेट्रो-जालं सुनिश्चितं भविष्यति। परियोजनायाः प्रथम-पुटके ९१८ कोटि-रूप्यकाणाम् अधिक-व्यययुक्त-कार्याणां कृते स्वीकृति-पत्रम् अपि निर्गतम् अस्ति।

मुख्यमन्त्री मानसरोवरात् लघु-चौपड्-पर्यन्तं मेट्रो-यात्रां कृत्वा बालकैः महिलाभिश्च सह संवादं कृत्वा तेषां मेट्रो-यात्रानुभवान् अपृच्छत्। यात्रिकैः उक्तं यत् ते जयपुर-मेट्रो-द्वितीय-चरणस्य आतुर-तया प्रतीक्षां कुर्वन्ति। प्रह्लादपुरात् टोडी-मोड्-पर्यन्तं ४१ किलोमीटर-दीर्घा एषा मेट्रो-रेखा अधिकाधिकेभ्यः जयपुर-नगरवासिभ्यः सुगमं मितव्ययं च आवागमन-साधनं प्रदास्यति।

Hindusthan Samachar / Divya Ranjan