Enter your Email Address to subscribe to our newsletters

काठमांडूः, 22 जुलाईमासः(हि.स.)।
नेपालसर्वकारेण अगस्तमासात् द्विसहस्रषड्विंशतितमवर्षात् आरभ्य द्विसहस्राष्टाविंशतितमवर्षस्य अन्तपर्यन्तं पोखरा तथा गौतमबुद्ध अन्ताराष्ट्रियविमानस्थानकाभ्यां नियमितान्ताराष्ट्रियविमानसेवाः सञ्चालयन्तीभ्यः विमानयानसंस्थाभ्यः विविधप्रकाराणि रियायतिप्रदानानि कर्तुं निर्णयः कृतः।
बुधवासरे सम्पन्नायां मन्त्रिपरिषदः उपवेशने पर्यटनमन्त्रालयस्य प्रस्तावः अनुमोदितः। निर्णयः कृतः यत् एताभ्यां अन्ताराष्ट्रियविमानस्थानकाभ्यां सञ्चाल्यमानानां नियमितान्तरराष्ट्रीयविमानसेवानां कृते पार्किङ्गशुल्कं अवतरणशुल्कं मार्गनिर्देशनशुल्कं च पूर्णतया माफं भविष्यति।
एतदतिरिक्तं मन्त्रिपरिषदा भूमिसेवाशुल्के पञ्चाशत्प्रतिशतपरिमितां रियायतिं प्रदातुं पर्यटनमन्त्रालयस्य प्रस्तावः अपि स्वीकृतः।
स्वनिर्माणात् त्रिवर्षाणि व्यतीतानि सन्ति तथापि एते उभे अन्ताराष्ट्रियविमानस्थानके अद्यापि पूर्णरूपेण सञ्चालने न आगते। एताभ्यां विमानस्थानकाभ्यां अन्ताराष्ट्रियविमानसेवानां प्रोत्साहनार्थं सर्वकारः निरन्तरं प्रयत्नान् करोति किन्तु यात्रिकाणाम् अभावात् नियमितविमानसेवाः सञ्चालयितुं न शक्यन्ते।
एतेषु पोखरा अन्तरराष्ट्रीयविमानस्थानकं चीनदेशात् उच्चव्याजदरेण ऋणं गृहीत्वा निर्मितम्। तस्य प्रतिदानार्थं नियमितकिस्तीभरणाय अपेक्षितं धनम् अपि अद्यावधि न समुपार्ज्यते।
तथैव भैरहवानगरे स्थितं गौतमबुद्ध अन्ताराष्ट्रियविमानस्थानकम् एशियाविकासनिधेः ऋणेन निर्मितम्।
--------------------
Hindusthan Samachar / Dheeraj Maithani