Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ जुलाईमासः (हि. स.)। निर्धारणवर्षस्य २०२६-२७ कृते अधुना यावत् त्रि कोटि-अधिकानि आयकरविवरणपत्राणि (आईटीआर) समर्पितानि सन्ति, येषु केवलं २१ जुलाईदिने एव पञ्चदशलक्षाधिकानि विवरणपत्राणि समर्पितानि।
आयकरविभागेन बुधवासरे उक्तं यत् निर्धारणवर्षस्य २०२६-२७ कृते अधुना यावत् त्रि-कोट्यधिकम् आयकरविवरणपत्राणि समर्पितानि, यदा केवलं मङ्गलवासरे २१ जुलाईदिने एव पञ्चदशलक्षाधिकानि विवरणपत्राणि समर्पितानि। अन्तिमतिथिसमीपे सम्भवं संमर्दं न प्रतीक्षध्वम्। निर्धारणवर्षस्य २०२६-२७ कृते स्वस्य आईटीआर-१ तथा आईटीआर-२ विवरणपत्रं ३१ जुलाई २०२६ तिथेः पूर्वं incometax.gov.in इति जालस्थले समर्पयन्तु।
उल्लेखनीयं यत् ३१ जुलाईतिथिः तेषां कृते अन्तिमतिथिः अस्ति, ये आईटीआर-१ तथा आईटीआर-२ विवरणपत्रं समर्पयन्ति। सामान्यतया यदि भवतः वार्षिकम् आयः आयकरमुक्तिसीमातः अधिकं भवति, तर्हि आयकरविवरणपत्रस्य समर्पणम् अनिवार्यं भवति।
Hindusthan Samachar / Dheeraj Maithani