Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 22 जुलाईमासः (हि.स.)।राष्ट्रवादीकाङ्ग्रेसपक्षस्य (शरदचन्द्र पवार गुटस्य) अध्यक्षः शरद पवार तथा लोकसभासदस्या सुप्रिया सुले बुधवासरे संसद्भवने प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन सह भेंटम् अकुरुताम्।
प्रधानमन्त्रीकार्यालयेन (पीएमओ) सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र भेंटस्य चित्राणि साझा कृत्वा सूचितं यत् शरद पवार तथा सुप्रिया सुले दिवाकाले संसद्परिसरे प्रधानमन्त्री मोदी इत्यनेन सह समागच्छताम्। किन्तु तयोः भेंटसमये केषु विषयेषु चर्चा अभवत् इति विषये कापि आधिकारिकसूचना न प्रदत्ता।
उल्लेखनीयं यत् अस्मात् पूर्वं मङ्गलवासरे शरद पवार तथा तस्य दुहिता सुप्रिया सुले जन्तरमन्तरस्थले नीटप्रश्नपत्रप्रस्रवणविषये प्रवर्तमाने प्रदर्शने सहभागिनौ अभवताम्। तयोः पक्षेन केन्द्रीयशिक्षामन्त्री धर्मेन्द्र प्रधानस्य त्यागपत्रस्य आग्रहस्य समर्थनम् अपि कृतम्।
-----------
Hindusthan Samachar / Dheeraj Maithani