Enter your Email Address to subscribe to our newsletters

नवदेहली, २२ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य एक्स इति सामाजिक-माध्यमे एकं सुभाषितं सामायिकीकृत्य आदर्शस्य तथा वस्तुतः श्रेष्ठपुरुषस्य गुणान् अवर्णयत्। तेन उक्तं यत् पुरुषस्य चरित्रं केवलं तस्य व्यक्तिगतकर्मभिरेव न प्रकाशते, अपितु समाजस्य, सुहृदां तथा राष्ट्रस्य प्रति स्वदायित्वानां सम्यगनुष्ठानेनापि प्रतिफलति।
सुभाषितमिदम् अस्ति—
परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः।।
अस्य भावार्थः— यः पुरुषः परकार्येषु पूर्णनिष्ठया समर्पणेन च प्रवृत्तो भवति, स्वकार्याणि शीघ्रतया कौशलपूर्वकं च सम्पादयति, सुहृदां कार्याणि निःस्वार्थभावेन निर्वर्तयति, राष्ट्रस्य कर्तव्यपालने च पूर्णपराक्रमं, साहसं समर्पणं च प्रदर्शयति, स एव वस्तुतः श्रेष्ठः आदर्शश्च पुरुषः कथ्यते।
Hindusthan Samachar / Divya Ranjan