Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 22 जुलाईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे अवदत् यत् सर्वेषां सुधारप्रयत्नानां केन्द्रे नागरिकाणां कल्याणमेव भवेत् तथा सर्वकारस्य कार्यप्रणाली कालस्य परिवर्तमानानामावश्यकतानामनुरूपं विकसितव्या। प्रधानमन्त्री लोककल्याणमार्गस्थिते स्वनिवासे सचिवैः सह उच्चस्तरीयमुपवेशनम् अकरोत्। उपवेशने विकसितभारतस्य लक्ष्यानां सिद्ध्यर्थं ग्रामविकासस्य कृषिक्षेत्रस्य सामाजिककल्याणस्य सम्बद्धक्षेत्राणां च अभिवृद्धेः समीक्षा कृता।
प्रधानमन्त्री अवदत् यत् सुधाराणामुद्देश्यम् केवलं शासकीयव्यवस्थायाः उन्नयनं नास्ति, अपितु भारतस्य विकसितराष्ट्रत्वप्राप्तेः यात्रायाः वेगवर्धनम् अस्ति। सः मन्त्रिमण्डलानां विभागानां च उद्भवन्तीनामावश्यकतानां सम्यक् मूल्याङ्कनं कर्तुं शासनव्यवस्थां च अधिकप्रभाविनीं निर्मातुं बलम् अददात्।
प्रधानमन्त्री विकसितभारतस्य लक्ष्यं जनान्दोलनरूपेण स्थापयितुं आवश्यकताम् उद्घोष्य अवदत् यत् अस्य अभियानस्य दृढतमाधारः देशस्य युवावर्गः भवेत्। सः विभिन्नमन्त्रालयानां मध्ये समन्वयवृद्धिं विभागीयसीमानां निराकरणं च आवश्यकम् इति उक्तवान् तथा समग्रशासनदृष्टिकोणस्य अवलम्बनम् अपेक्षितम् इति प्रतिपादितवान्।
उपवेशने प्रधानमन्त्री मोदी युवसु वर्धमानां मादकद्रव्यसेवनस्य समस्यां प्रति चिन्तां प्रकटयन् तस्याः निवारणाय संस्थागततन्त्रस्य विकासं विभिन्नविभागानां मध्ये च उत्तमसमन्वयस्य स्थापनां सूचितवान्। सः क्रीडाक्षेत्रस्य विकासाय एकीकृतदृष्टिकोणस्य अवलम्बनम् अपि आवश्यकम् इति प्रतिपाद्य अवदत् यत् क्रीडापर्यटनस्य प्रोत्साहनेन भारतं प्रमुखानामन्ताराष्ट्रियक्रीडास्पर्धानां आयोजनाय सज्जीकर्तव्यम्, येन देशः वैश्विकक्रीडाकेन्द्ररूपेण प्रतिष्ठां प्राप्नुयात्। सः क्रीडाक्षेत्रे प्रौद्योगिक्याः नवप्रारम्भाधारितनवाचाराणां च प्रोत्साहनस्य आवश्यकतामपि प्रतिपादितवान्।
प्रधानमन्त्री अवदत् यत् प्रधानमन्त्रीकुसुमयोजनायाः सदृशीनां योजनानां कृषकेषु व्यापकस्वीकारेण कृषिक्षेत्रे महत् परिवर्तनम् आनेतुं शक्यते। सः वैश्विकस्तरे कौशलमाङ्गल्यस्य मूल्याङ्कनस्य आवश्यकतामपि प्रतिपादितवान्, येन भारतीययुवानः अन्ताराष्ट्रियावसरेभ्यः अनुरूपतया सज्जीकर्तुं शक्येरन्।
उपवेशने विभिन्नमन्त्रालयानां सचिवाः स्वस्वक्षेत्रेषु प्रचलितानां योजनानाम् उपलब्धीनां चुनौतीनां च विषये प्रधानमन्त्रीं अवगतवन्तः। उपवेशने मन्त्रिमण्डलसचिवः, प्रमुखमन्त्रालयानां सचिवाः तथा प्रधानमन्त्रीकार्यालयस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
------------
Hindusthan Samachar / Dheeraj Maithani