Enter your Email Address to subscribe to our newsletters

१६ वर्षाधिकवयस्काः छात्राः आवेदनं कुर्वन्तु
प्रयागराजनगरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशसर्वकारः दिव्याङ्गजनान् शिक्षया आत्मनिर्भरतया च सम्बद्धान् कर्तुं निरन्तरं कल्याणकारीयोजनाः सञ्चालयति। अस्याः श्रृङ्खलायाः अन्तर्गतं उत्तरप्रदेशस्य दिव्याङ्गजनसशक्ती-करणविभागेन जनपदस्य विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु च अध्ययनरताभ्यः दिव्याङ्ग-छात्राभ्यः निःशुल्क-ई-ट्राइसाइकिल-प्रदानस्य योजना सञ्चाल्यते। अस्याः योजनायाः अन्तर्गतं प्रति लाभार्थिनी अधिकतमं ६५ सहस्ररूप्यकाणां मूल्ययुक्ता ई-ट्राइसाइकिल प्रदास्यते, येन तासां शिक्षणसंस्थानेषु सुगमम् आवागमनं सम्भवेत्। एतां सूचनां बुधवासरे जनपददिव्याङ्गजनसशक्तीकरणाधिकारी अशोककुमार-गौतमः अददात्।
सः अवदत् यत् अस्याः योजनायाः उद्देश्यं दिव्याङ्ग-छात्राणां शैक्षिकपुनर्वासस्य प्रोत्साहनं तथा शिक्षाप्राप्तौ आवागमन-सम्बद्धानां कठिनतानां निवारणं च अस्ति।
सः पुनरपि अवदत् यत् अस्याः योजनायाः लाभः ताभ्यः छात्राभ्यः प्रदास्यते, यासां वयः १६ वर्षाणि अथवा ततः अधिकं भवेत्, याः मान्यताप्राप्तेषु विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु वा अध्ययनरताः स्युः तथा मस्क्यूलर-डिस्ट्रॉफी, स्ट्रोक्, सेरेब्रल-पाल्सी, हीमोफीलिया अथवा अन्यया पात्रदिव्याङ्गतया प्रभाविताः स्युः। लाभार्थिन्याः दृष्टिः मानसिकावस्था च सामान्ये स्तः तथा कटेः उपरिभागः स्वस्थः भवेत्, येन सा ई-ट्राइसाइकिलस्य सुरक्षितं सञ्चालनं कर्तुं समर्था भवेत्। दिव्याङ्गतायाः प्रमाणरूपेण मुख्य-चिकित्सा-अधिकाऱिणा प्रमाणीकृतं दिव्याङ्गप्रमाणपत्रम् अथवा यूडीआईडी परिचयपत्रम् अनिवार्यं भविष्यति।
काभ्यः दिव्याङ्ग-छात्राभ्यः लाभः भविष्यति
अशोककुमार-गौतमः अवदत् यत् योजनायाः लाभः केवलं ताभ्यः छात्राभ्यः प्रदास्यते, यासां परिवारः आयकरदाता नास्ति। निर्धनरेखायाः अधः जीवनं यापयन्तीनां परिवाराणां छात्राभ्यः प्राधान्यं प्रदास्यते। तथा च याभिः गतपञ्चवर्षेषु कस्मादपि शासकीयात् अथवा अन्यस्रोतसः ई-ट्राइसाइकिल न प्राप्ता, ताः एव अस्याः योजनायाः पात्राणि भविष्यन्ति।
आवेदनं अन्तर्जालमाध्यमेन एव करणीयम्
सः अवदत् यत् आवेदनं जालमाध्यमेन एव करणीयम्। आवेदनपत्रेण सह अध्ययनरतत्वस्य प्रमाणपत्रं सम्बन्धितात् शिक्षणसंस्थानात् अथवा प्रशिक्षणसंस्थानात् प्राप्त्य अपलोड् करणम् अनिवार्यं भविष्यति। एतदतिरिक्तम् आवश्यकाभिलेखाः अपि जालमाध्यमेन आवेदनपत्रेण सह संलग्नाः करणीयाः।
जनपददिव्याङ्गजनसशक्तीकरणाधिकारी जनपदस्य पात्राभ्यः दिव्याङ्ग-छात्राभ्यः तासां पालकेभ्यश्च समये आवेदनप्रक्रियायाः सम्पादनस्य आह्वानम् अकरोत्। आवेदनसम्बद्धायाः कस्यापि सूचनायाः साहाय्यस्य वा कृते प्रयागराजस्य विकासभवने कक्षसंख्या–१३ स्थितेन जनपददिव्याङ्गजनसशक्ती-करणाधिकारी-कार्यालयेन सम्पर्कः कर्तुं शक्यते।
सः अवदत् यत् उत्तरप्रदेशसर्वकारस्य एषा योजना दिव्याङ्ग-छात्राभ्यः शिक्षायाः अवसरं, आत्मनिर्भरतां, सम्मानजनक-जीवनस्य दिशि प्रगतिं च प्रदातुं महत्त्वपूर्णः प्रयासः अस्ति। अनया योजनया विद्यालयमहाविद्यालययोः गमनागमनं सुगमं भविष्यति तथा तासां शिक्षा निर्विघ्नतया प्रवर्तिष्यते।
Hindusthan Samachar / Divya Ranjan