सनातनस्य सर्वप्रमुखा विशेषता तस्य समावेशी प्रवृत्तिः अस्ति - प्रो. हरि-नारायण-दुबे
प्रयागराजनगरम्, २२ जुलाईमासः (हि.स.)। सनातनं केवलं धार्मिक-अवधारणा नास्ति, अपितु मानवता, समरसता तथा शाश्वत-जीवन-दृष्टेः प्रतीकम् अस्ति। अस्य सर्वप्रमुखा विशेषता तस्य समावेशी प्रवृत्तिः अस्ति, या सर्वान् विचारान् आत्मसात् कृत्वा लोककल्याणस्य मार्गं
उप्र राजर्षि टंडन मुक्त विश्वविद्यालय में आयोजित संगोष्ठी का छाया चित्र


प्रयागराजनगरम्, २२ जुलाईमासः (हि.स.)। सनातनं केवलं धार्मिक-अवधारणा नास्ति, अपितु मानवता, समरसता तथा शाश्वत-जीवन-दृष्टेः प्रतीकम् अस्ति। अस्य सर्वप्रमुखा विशेषता तस्य समावेशी प्रवृत्तिः अस्ति, या सर्वान् विचारान् आत्मसात् कृत्वा लोककल्याणस्य मार्गं प्रशस्तं करोति।

एतान् विचारान् बुधवासरे उत्तरप्रदेश-राजर्षि-टण्डन-मुक्त-विश्वविद्यालयस्य समाज-विज्ञान-विद्याशाखायाः तत्त्वावधाने आयोजितां सङ्गोष्ठीं सम्बोधयन् इलाहाबाद-विश्वविद्यालयस्य प्राचीन-इतिहास-संस्कृति-पुरातत्त्व-विभागस्य पूर्वाचार्यः प्रो. हरि-नारायण-दुबे व्यक्तवान्। सः अवदत् यत् भारतस्य संस्कृतिः विश्वकल्याणस्य भावनायाम् आधारितास्ति तथा सनातनस्य मूलाधारः सत्यं, कर्तव्यं लोकमङ्गलं च अस्ति। तेन उक्तं यत् औपनिवेशिक-काले भारतीय-सनातन-जीवन-पद्धतेः सांस्कृतिक-मूल्यानां च विकृतीकरणस्य प्रयत्नाः अभवन्, येषां प्रभावी उत्तरं महामना-मदनमोहन-मालवीयेन वर्षे १९३३ तमे प्रारब्धया ‘सनातन-धर्म’ इति पत्रिकया प्रदत्तम्।

तेन उक्तं यत् सनातनस्य सर्वप्रमुखा विशेषता तस्य समावेशी प्रवृत्तिः अस्ति। एषः कमपि प्रति वैरभावं न धारयति, अपितु सर्वान् विचारान् आत्मसात् कर्तुं सामर्थ्यं धारयति। महात्मनः गौतम-बुद्धात् आरभ्य महात्मा-गान्धिपर्यन्तं भारतीय-चिन्तनस्य मूलधारायां समरसता, सहिष्णुता तथा सर्वधर्म-समभावस्य भावना अस्यैव सनातन-परम्परायाः परिचायिका अस्ति। तेन संस्कृतेः पुष्पस्य सुगन्धेन सभ्यतायाश्च तस्य पर्णदलैः उपमा दत्ता तथा आधुनिक-प्रौद्योगिकी-युगे डिजिटल-माध्यमानां विवेकपूर्ण-उपयोगस्यापि महत्त्वं प्रतिपादितम्।

विश्वविद्यालयस्य समाज-विज्ञान-विद्याशाखायाः तत्त्वावधाने सरस्वती-परिसरस्थिते लोकमान्य-तिलक-सभागारे ‘भारतीय-संस्कृतौ सनातनस्य अवधारणा’ इति विषयिण्या: एकदिवसीय-सङ्गोष्ठ्याः अध्यक्षतां कुर्वन् विश्वविद्यालयस्य कुलपतिः प्रो. सत्यकामः अवदत् यत् सनातनं वैदिक-चेतनायाः तत् शाश्वतं तत्त्वम् अस्ति, यत् समस्तां मानवतां सह गन्तुं प्रेरयति। तेन उक्तं यत् भारतीय-संस्कृतेः सर्वप्रमुखा विशेषता तस्याः गतिशीलता अस्ति, यस्यां न जडता अस्ति न च सङ्कीर्णता। एषा निरन्तरं विकसितुम् अर्हती जीवनधारा अस्ति, या प्रत्येके युगे नूतन-विचारान् आत्मसात् कृतवती अस्ति। प्रो. सत्यकामः अवदत् यत् सनातनं केवलया सङ्कीर्ण-धार्मिक-परिचयेन न द्रष्टव्यम्। अस्य वास्तविकं स्वरूपं समावेशे, संवादे, सह-अस्तित्वे तथा मानव-कल्याणे निहितम् अस्ति। तेन मूर्ति-पूजनं मानव-सभ्यतायाः प्राचीना सार्वभौम-परम्परा इति वर्णयन् उक्तं यत् इतिहासस्य विविधेषु कालखण्डेषु विश्वस्य अनेकासु सभ्यतासु अपि अस्या: परम्परायाः उपस्थितिः आसीत्।

कार्यक्रमस्य प्रारम्भे समाज-विज्ञान-विद्याशाखायाः निदेशकः तथा सङ्गोष्ठ्याः समन्वयकः प्रो. एस. कुमारः अतिथीनां स्वागतं कृत्वा विषयस्य प्रासङ्गिकतां प्रकाशयामास। आयोजन-सचिवः डॉ. सुबास-चन्द-पालः आयोजनस्य रूपरेखां प्रस्तुतवान्। कार्यक्रमस्य सञ्चालनं डॉ. सुनील-कुमारः अकरोत्, धन्यवाद-ज्ञापनं च डॉ. त्रिविक्रम-तिवारी अकरोत्। सङ्गोष्ठ्यां विश्वविद्यालयस्य निदेशकाः, आचार्याः, सहायक-आचार्याः, शोधार्थिनः, विद्यार्थिनः तथा बहवः प्रबुद्धजनाः उपस्थिताः आसन्।

/ Dheeraj Maithani