क्वाड देशाः विदेशमंत्रिणामुपवेशने आसियानेन सह सहयोगं दृढीकर्तुं सहमतिः, मुक्ते अनावृते च हिंद-प्रशांत क्षेत्रेऽपि अभिमुखताम्
नव दिल्ली, 22 जुलाईमासः (हि.स.)।भारतस्य, अमेरिकादेशस्य, ऑस्ट्रेलियादेशस्य तथा जापानदेशस्य विदेशमन्त्रिणां मनीलानगरे सम्पन्नायां क्वाडमन्त्रणायां आसियानसङ्घस्य केन्द्रीयभूमिकायाः सुदृढीकरणाय, मुक्तस्य उदारस्य च हिन्दप्रशान्तप्रदेशस्य समर्थनाय तथा सा
क्वाड बैठक में मौजूद चारों देशों के विदेश मंत्री।


नव दिल्ली, 22 जुलाईमासः (हि.स.)।भारतस्य, अमेरिकादेशस्य, ऑस्ट्रेलियादेशस्य तथा जापानदेशस्य विदेशमन्त्रिणां मनीलानगरे सम्पन्नायां क्वाडमन्त्रणायां आसियानसङ्घस्य केन्द्रीयभूमिकायाः सुदृढीकरणाय, मुक्तस्य उदारस्य च हिन्दप्रशान्तप्रदेशस्य समर्थनाय तथा सामुद्रिकसुरक्षा, आर्थिकसमृद्धिः, उद्भवन्त्यः प्रौद्योगिक्यः, मानवीयसाहाय्यम्, आपदासहायतादिषु क्षेत्रेषु सहयोगविस्ताराय सहमति अभवत्। मन्त्रणायां चतुर्णां देशानां प्रतिनिधिभिः प्रादेशिकशान्तिः स्थैर्यं च हिन्दप्रशान्तप्रदेशस्य सुरक्षा समृद्ध्योः आधारशिला इति प्रतिपाद्य आसियानसङ्घेन सह सहभागितायाः अधिकसुदृढीकरणे अपि बलं दत्तम्।

विदेशमन्त्रालयेन उक्तं यत् भारतस्य विदेशमन्त्री डा. एस. जयशङ्करः, ऑस्ट्रेलियादेशस्य विदेशमन्त्री पेनी वोंग, जापानदेशस्य विदेशमन्त्री तोशिमित्सु मोतेगी तथा अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो संयुक्तवक्तव्ये अवदन् यत् चत्वारो देशाः आसियानसङ्घस्य एकतायाः केन्द्रीयभूमिकायाश्च प्रति स्वीयम् अटूटसमर्थनं निरन्तरं प्रदास्यन्ति। क्वाडसमूहस्य आसियानसङ्घस्य च मध्ये सहयोगः प्रदेशस्य स्थैर्यविकाससमृद्धीनां कृते अत्यन्तम् महत्त्वपूर्णः अस्ति।

विदेशमन्त्रिभिः आसियानसदस्यदेशैः सह स्वसम्बन्धान् अधिकं सुदृढीकर्तुं पुनः प्रतिपादितं यत् ते प्रदेशस्य सफलतायै विकासाय च गाढतया समर्पिताः सन्ति। मन्त्रणायां प्रादेशिकचुनौत्यः अवसराश्च विषये विस्तरेण चर्चा अभवत् तथा आसियानस्य हिन्दप्रशान्तदृष्टिकोणस्य व्यावहारिकक्रियान्वयनस्य अग्रसरणाय सहमति व्यक्ता।

संयुक्तवक्तव्ये उक्तं यत् सामुद्रिकसुरक्षा, अन्तरराष्ट्रीयसुरक्षा, आर्थिकसमृद्धिः आर्थिकसुरक्षा च, महत्त्वपूर्णाः उद्भवन्त्यः प्रौद्योगिक्यः, मानवीयसाहाय्यम् तथा आपदासहायताक्षेत्राणि एतानि क्षेत्राणि सन्ति, यत्र क्वाडसमूहस्य आसियानसङ्घस्य च मध्ये सहयोगः अधिकं वर्धयिष्यते। विदेशमन्त्रिभिः एषु क्षेत्रेषु व्यावहारिकसहयोगेन सम्पूर्णः हिन्दप्रशान्तप्रदेशः लाभं प्राप्स्यति इति विशेषतया प्रतिपादितम्।

मन्त्रणायां सामुद्रिकक्षेत्रस्य सुरक्षायै विशेषमहत्त्वं प्रदत्तम्। चतुर्भिः देशैः उक्तं यत् हिन्दप्रशान्तप्रदेशस्य सामुद्रिकक्षेत्रे शान्तिः स्थैर्यं च सम्पूर्णप्रदेशस्य सुरक्षा आर्थिकविकासयोः कृते अनिवार्यम् अस्ति। तैः नियमानुगतायाः अन्तरराष्ट्रीयव्यवस्थायाः, सुरक्षितानां सामुद्रिकमार्गाणाम् तथा प्रादेशिकसहयोगस्य सुदृढीकरणस्य आवश्यकता प्रतिपादिता।

संयुक्तवक्तव्ये एतदपि उक्तं यत् क्वाडदेशाः प्रादेशिकवैश्विकचुनौतीनां समाधानाय आसियानसङ्घेन सह संयुक्तरूपेण कार्यं निरन्तरं करिष्यन्ति। विदेशमन्त्रिभिः अस्मिन् विषये सहमति व्यक्ता यत् सहयोगेन, संवादेन, सहभागितया च एव हिन्दप्रशान्तप्रदेशः अधिकः सुरक्षितः, स्थिरः, समृद्धश्च कर्तुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani