Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 22 जुलाईमासः (हि.स.)।रक्षामन्त्री राजनाथ सिंहः देहल्यां प्रवर्तमानानां विरोधप्रदर्शनानां विषये चिन्तां प्रकटितवान्। तेन उक्तं यत् एतत् अत्यन्तं दुर्भाग्यपूर्णम् अस्ति यत् देशस्य छात्रान् युवानः च केचन जनाः स्वकीयानां राजनैतिकस्वार्थानां पूर्त्यर्थम् उपकरणरूपेण उपयोक्तुं प्रयतन्ते। संसदीयसत्रस्य प्रवर्तनकाले मार्गे समाधानस्य अन्वेषणप्रयासः अनुचितः अस्ति।
राजनाथ सिंह अत्र पत्रकारैः सह संवादं कुर्वन् अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे शासनं विद्यार्थिनां युवानां च आकाङ्क्षाणां पूर्तये तेषां कल्याणाय च पूर्णतया प्रतिबद्धम् अस्ति। छात्राणां प्रत्येकां चिन्तां श्रोतुं तस्याः समाधानं कर्तुं च शासनस्य उत्तरदायित्वम् अस्ति। भारतस्य जागरूकाः विवेकशीलाः युवानः एतादृशान् भ्रामकप्रयासान् सम्यक् अवगच्छन्ति तथा च प्रगतेः विकासस्य राष्ट्रनिर्माणस्य च मार्गमेव वरणं करिष्यन्ति।
तेन उक्तं यत् विपक्षस्य केषाञ्चन नेतॄणां कृत्रिमक्रोधवातावरणनिर्माणस्य प्रयासः केवलं जनान् विशेषतः बालकान् युवानः च भ्रमयितुम् असफलः प्रयासः अस्ति। युवानां भावनानां चिन्तानां च प्रति शासनं पूर्णतया संवेदनशीलम् अस्ति। संसदीयसत्रं प्रवर्तते तथा च शासनं सर्वेषां विषयाणां विषये सार्थकचर्चां कर्तुं सिद्धम् अस्ति किन्तु विपक्षः मार्गे समाधानस्य अनुचितं प्रयासं करोति।
रक्षामन्त्री अवदत् यत् लोकतन्त्रे विषयाणां चर्चायाः स्थानं संसद्भवनम् एव अस्ति यत्र विपक्षः स्वमतस्य प्रस्तुतीकरणाय स्वतन्त्रः अस्ति। तेन विपक्षं प्रति अपीलं कृतम् यत् यदि ते गम्भीराः सन्ति तर्हि संसदीयकार्यवाह्यां व्यवधानं मा जनयन्तु तथा च सर्वेषां विषयाणां विषये संसदि एव देशस्य ध्यानम् आकर्षयन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani