Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २२ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीय-सह-सङ्घटनमहामन्त्री शिवप्रकाशः छत्तीस-गढप्रवासस्य द्वितीये दिवसे अद्य बुधवासरे प्रदेशमहामन्त्रिभिः तथा विविधप्रकोष्ठानां संयोजकैः सह पृथक्-पृथक् सभाः करिष्यति। एतासु सभासु सङ्घटनात्मक-क्रियाकलापानां समीक्षा भविष्यति तथा अग्रिमकार्ययोजनायाः विषये विचार-विमर्शोऽपि भविष्यति।
प्रातःकाले प्रदेशमहामन्त्रिणां सभा भविष्यति, अपराह्णे च प्रदेशप्रकोष्ठ-संयोजकैः सह सभा आयोजिता भविष्यति। एतासु सभासु मुख्यमन्त्री विष्णुदेव-सायः, प्रदेशभाजपाध्यक्षः किरणदेवः, प्रदेश-सङ्घटनमहामन्त्री पवन-सायः तथा सङ्घटनस्य वरिष्ठपदाधिकारीणः उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan