मेक्सिकोराष्ट्रस्य दिग्गज गोलकीपर गुइलेर्मो ओचोआ अगृह्णात् संन्यासं, 22 वर्षीयवृत्तस्य अंतः
मेक्सिको सिटी, 22 जुलाईमासः (हि.स.)।मेक्सिकोदेशस्य महतां गोलरक्षकाणां मध्ये परिगणितः गुइलेर्मो ओचोआ मङ्गलवासरे व्यावसायिकपादकन्दुकक्रीडातः स्वनिवृत्तेः घोषणाम् अकरोत्। एकचत्वारिंशद्वर्षीयः ओचोआ स्वस्य द्वाविंशतिवर्षपरिमितं गौरवपूर्णं क्रीडाजीवनम् उ
मेक्सिको के दिग्गज गोलकीपर गुइलेर्मो ओचोआ


मेक्सिको सिटी, 22 जुलाईमासः (हि.स.)।मेक्सिकोदेशस्य महतां गोलरक्षकाणां मध्ये परिगणितः गुइलेर्मो ओचोआ मङ्गलवासरे व्यावसायिकपादकन्दुकक्रीडातः स्वनिवृत्तेः घोषणाम् अकरोत्। एकचत्वारिंशद्वर्षीयः ओचोआ स्वस्य द्वाविंशतिवर्षपरिमितं गौरवपूर्णं क्रीडाजीवनम् उपसंहृतवान्। तेन पूर्वमेव स्पष्टतया उक्तम् आसीत् यत् फीफाविश्वकप २०२६ तस्य क्रीडाजीवनस्य अन्तिमः प्रतियोगितोत्सवः भविष्यति। तथापि तदनन्तरं तस्य नवीनेन क्रीडासङ्घेन सह सम्बद्धतायाः अटकलाः प्रचलन्ति स्म, किन्तु अधुना तेन ताः सर्वाः चर्चाः समाप्ताः कृताः।

सामाजिकमाध्यमेषु भावपूर्णं सन्देशं प्रसारयन् ओचोआ अवदत्, मया मम सर्वस्वं समर्पितम्। मम क्रीडासङ्घानां राष्ट्रियदलस्य च कृते क्रीडाङ्गणे मया मम सर्वोत्तमः प्रयासः कृतः। अद्य अहं स्वीयान् गोलरक्षकहस्तावरणान् अपसारयामि। गोलरक्षकत्वम् इत्यस्य अर्थः अस्ति यत् नवतिमिनिटपर्यन्तं भवतः कृते केवलम् एकः अवसरः लभ्येत, यस्मिन् सर्वं भवति भवतः उपरि एव आश्रितम्। यदा सः क्षणः आगच्छति तदा कदापि सङ्कोचः न कर्तव्यः।

ओचोआ मेक्सिकोदेशस्य पक्षतः षट् फीफाविश्वकपप्रतियोगितानां दलस्य सदस्यः आसीत्। एषा उपलब्धिः केवलं क्रिस्टियानो रोनाल्डो तथा लियोनेल मेसी इत्यादीनां महतां क्रीडकानाम् अपि नामसु अभिलिखिता अस्ति। तेन २०१४ तमे वर्षे ब्राजीलदेशे २०१८ तमे वर्षे रूसदेशे २०२२ तमे वर्षे कतारदेशे आयोजितेषु विश्वकपप्रतियोगितासु मेक्सिकोदेशस्य प्रथमपसन्दगोलरक्षकत्वेन उत्तरदायित्वं निर्वाहितम्।

ओचोआ २००४ तमे वर्षे फेब्रुवरीमासे क्लबअमेरिका इत्यस्य कृते स्वस्य व्यावसायिकप्रथमप्रवेशम् अकरोत्। सप्तऋतुपर्यन्तं क्लबअमेरिका इत्यस्य कृते क्रीडित्वा सः २०११ तमे वर्षे फ्रान्सदेशस्य अजाक्सियोक्लबेन सह सम्बद्धः अभवत् तथा यूरोपे क्रीडन्तानां मेक्सिकोदेशजगोलरक्षकाणां मध्ये प्रथमः अभवत्। ततः परं तेन मालागा ग्रेनाडा स्टैंडर्डलीज सालेरनिताना एवीएस फुटबोल एईएल लिमासोल इत्यादीनां क्रीडासङ्घानाम् अपि प्रतिनिधित्वं कृतम्। २०१९ तः २०२२ पर्यन्तं सः पुनः क्लबअमेरिका इत्यत्र प्रत्यागतः आसीत्।

स्वस्य विदायीसन्देशे ओचोआ अवदत्, मया कदापि न चिन्तितम् आसीत् यत् एकः स्वप्नः मां एतावद्दूरं नयिष्यति। अद्य अहं गर्वेण पृष्ठतः पश्यामि तथा केवलम् एतदेव वदामि, धन्यवादः। अहं स्वसह कोटिशः जनानां स्नेहं तथा एतत् सन्तोषं नयामि यत् मया मेक्सिकोदेशस्य कृते मम सर्वस्वं समर्पितम्।

विश्वकप २०२६ प्रतियोगितायां सः मुख्यतया राउल रेंगेल इत्यस्य सहायकगोलरक्षकः आसीत्, किन्तु मुख्यप्रशिक्षकेण जेवियर अगुइरे चेकगणराज्यस्य विरुद्धम् अन्तिमसमूहस्पर्धायां तस्मै अन्तिमत्रयोदशमिनिटपर्यन्तं क्रीडितुं अवसरः प्रदत्तः। स्पर्धायाः अनन्तरं भावविह्वलः ओचोआ एस्टाडियो एज़्टेका इत्यस्य क्रीडाङ्गणस्य गोलस्तम्भं चुम्बितवान्, यतः तस्य क्रीडाजीवनस्य आरम्भः अभवत्। ततः परं सः स्वसहक्रीडकैः सह आलिङ्ग्य विदायीं स्वीकृतवान् तथा दर्शकेषु निर्गतेषु अन्तिमवारं क्रीडाङ्गणस्य मध्यभागम् आगत्य स्वस्य स्मरणीयं क्रीडायात्रां प्रणम्य उपसंहृतवान्।

क्रीडासङ्घस्तरे ओचोआ २००५ तमे वर्षे क्लबअमेरिका इत्यनेन सह लीगविजेतृपदम् तथा स्टैंडर्डलीज इत्यनेन सह बेल्जियनकपविजयम् अलभत। अन्ताराष्ट्रियस्तरे तेन मेक्सिकोदेशः षट् कॉनकाकाफ गोल्डकपविजयेषु योगदानं दत्तम् तथा टोक्यो २०२० ओलम्पिकक्रीडासु कांस्यपदकम् अपि प्राप्तम्।

---------------

Hindusthan Samachar / Dheeraj Maithani